भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 353, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 353
३४४श्रीमद्वैपायनमुनिप्रणीतम्—[अ० ९५ श्लो ० ८-३२]
( ज्यामघवृत्तकथनम् )

आदिष्टं तेजसा मेघसागरं शोषयिष्यति । शुष्कं भस्म करिष्यामि तेन प्रीतो नराधिप ॥ ८
ततः शरानथाऽऽदित्यस्त्वर्जुनाय प्रयच्छत । ततः संप्राप्य सुमहत्स्थावरं सर्वमेव हि ॥ ९
आश्रमानथ ग्रामांश्च घोषांश्च नगराणि च । तपोवनानि रम्याणि वनान्युपवनानि च ॥ १०
एवं प्राचीनमदहत्ततः सूर्यप्रदक्षिणम् । निर्वृक्षा निस्तृणा भूमिर्दग्धा सूर्येण तेजसा ॥ ११
एतस्मिन्नेव काले तु आपवो नियमस्थितः । दशवर्षसहस्राणि जलवासा महानृषिः ॥ १२
पूर्णे व्रते महातेजा उदतिष्ठत्तपोधनः । सोऽपश्यदाश्रमं दग्धमर्जुनेन महानृषिः ॥
क्रोधाच्छशाप राजर्षिं कीर्तितं वो यथा मया ॥ १३

सूत उवाच—
क्रोष्टोः शृणुत राजर्षेर्वंशमुत्तमपूरुषम् । अस्यान्ववाये संभूतो वृष्णिर्वृष्णिकुलोद्वहः ॥ १४
क्रोष्टोरेकोऽभवत्पुत्रो वृजिनीवान्महायशाः । वार्जिनीवतमितीच्छन्ति स्वाहिं स्वाहावतां वरम् ॥ १५
स्वाहेः पुत्रोऽभवद्राजा रशादुर्द्दतां वरः । सुतं प्रसूतमिच्छन्ति रशादोरन्यमात्मजम् ॥ १६
महाक्रतुभिरीज्ये स विविधैराप्तदक्षिणैः । चित्रैश्चित्ररथस्तस्य पुत्रकर्मभिरन्वितः ॥ १७
एवं चित्ररथो वीरो यज्ञान्विपुलदक्षिणान् । शशबिन्दुः परं वृत्तो राजर्षीणामनुष्ठितः ॥ १८
चक्रवर्ती महासत्त्वो महावीर्यो बहुप्रजः । तत्रानुवंशश्लोकोऽयं यस्मिन्गीतः पुराविदैः ॥ १९
शशबिन्दोऽस्तु पुत्राणां शतानामभवच्छतम् । धीमतामनुरूपाणां भूरिद्रविणतेजसाम् ॥ २०
तेषां षट् च प्रधानास्तु पृथुसाह्या महाबलाः । पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुंजयः ॥ २१
पृथुकीर्तिः पृथुंदाता राजानः शशबिन्दवः । शंसन्ति च पुराणानि पार्थश्रवसमन्तरम् ॥
अन्तरः स पुरा यस्तु यज्ञस्य तनयोऽभवत् ॥ २२
उशना सेतु धर्मात्मा अवाप्य पृथिवीमिमाम् । आजहाराश्वमेधानां शतमुत्तमधार्मिकः ॥ २३
मरुत्तस्तस्य तनयो राजर्षीणामनुष्ठितः । वीरः कम्बलवर्हिस्तु मरुत्ततनयः स्मृतः ॥ २४
पुत्रस्तु रुक्मकवचो विद्वान्कम्बलवार्हिषः । निहत्य रुक्मकवचः पुरा कवचिनो रणे ॥ २५
धन्विनो निशितैर्बाणैरवाप श्रियमुत्तमाम् । ब्राह्मणेभ्यो ददौ वित्तमश्वमेधे महायशाः ॥ २६
राज्ञस्तु रुक्मकवचादपरावृत्य वीरहाः । जज्ञिरे पञ्च पुत्रास्तु महासत्त्वा महाबलाः ॥ २७
रुक्मेषु पृथुरुक्मश्च ज्यामघः परिवो हरिः । परिवं च हरिं चैव विदेहेऽस्थापयत्पिता ॥ २८
ऋलेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः । तेभ्यः प्रव्राजितो राज्याज्ज्यामेघोऽभवदाश्रते ॥ २९
प्रशान्तस्तु वने घोरे ब्राह्मणेनावबोधितः । जगाम धनुरादाय देशमध्यं रथी ध्वजी ॥ ३०
नर्मदानूप एकाकी मेकलावृत्तिका अपि । ऋक्षवन्तं गिरिं गत्वा शुक्तिमत्यामथाविशत् ॥ ३१
ज्यामघस्याभवद्भार्या सैब्या बलवती भृशम् । अपुत्रोऽपि स वै राजा भार्यामन्यां न विन्दति ॥ ३२