भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 39, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 39

३० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०८ श्लो १७४-२०१] ( चतुराश्रमविभागः )

स्थानमैन्द्रं क्षत्रियाणां सङ्ग्रामेष्वपलायिनाम् । वैश्यानां मारुतं स्थानं स्वधर्ममुपजीविनाम् ॥ १७४ गान्धर्वं शूद्रजातीनां परिचारेण तिष्ठताम् । स्थानान्येतानि वर्णानां व्यत्याचारवतां स्वयम् ॥ १७५ ततः स्थितेषु वर्णेषु स्थापयामास चाऽऽश्रमान् । गृहस्थो ब्रह्मचारित्वं वानप्रस्थं साभिक्षुकम् ॥ १७६ आश्रमांश्चतुरो ह्येतान्पूर्वमास्थापयत्प्रभुः । वर्णकर्माणि ये केचित्तेषामिह न कुर्वते ॥ १७७ कुतः कर्माक्षितिं प्राहूराश्रमस्थानवासिनः । ब्रह्मा तान्स्थापयामास आश्रमान्नाम नामतः ॥ १७८ निर्देशार्थं ततस्तेषां ब्रह्मा धर्मानभाषत । प्रस्थानानि च तेषां वै यमांश्च नियमांश्च ह ॥ १७९ चातुर्वर्ण्यात्मकः पूर्वं गृहस्थश्चाऽऽश्रमः स्मृतः । त्रयाणामाश्रमाणां च प्रतिष्ठा योनिरैव च ॥ १८० यथाक्रमं प्रवक्ष्यामि यमैश्च नियमैश्च ते । दाराग्न्याऽऽस्थाऽऽतिथेय इज्याश्राद्धक्रियाः प्रजाः ॥ १८१ इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः । दण्डी च मेखली चैव ह्यधःशायी तथा जटी ॥ १८२ गुरुशुश्रूषणं भैक्ष्यं विद्यार्थे ब्रह्मचारिणः । चरिपत्राजिनानि स्युर्धान्यमूलफलौषधम् ॥ १८३ उभे संध्ये वगाहश्च होमश्चारण्यवासिनाम् । आसन्नमुसले भैक्षमस्तेयं शौचमेव च ॥ १८४ अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा । अक्रोधो गुरुशुश्रूषा सत्यं च दशमं स्मृतम् ॥ १८५ दशलक्षणको ह्येष धर्मः प्रोक्तः स्वयंभुवा । भिक्षोर्व्रतानि पञ्चात्र पञ्चैवोपत्रतानि च ॥ १८६ आचारशुद्धिर्विनयः शौचं चापातिकर्म च । सम्यग्दर्शनामित्येवं पञ्चैवोपत्रतान्यपि ॥ १८७

ध्यानं समाधिर्मनसेन्द्रियाणां ससागरैर्भैक्ष्यमथोपगम्य ।
मौनं पवित्रोपचितैर्विमुक्तिः परिव्रजो धर्ममिमं वदन्ति ॥

सर्वे ते श्रेयसे प्रोक्ता आश्रमा ब्रह्मणा स्वयम् । सत्यार्जवं तपः क्षान्तिर्योगेज्या दमपूर्विका ॥ १८९ वेदाः साङ्गाश्च यज्ञाश्च व्रतानि नियमाश्च ये । न सिध्यन्ति प्रदुष्टस्य भावदोष उपागते ॥ १९० बहिः कर्माणि सर्वाणि प्रसिध्यन्ति कदाच न । अन्तर्भावप्रदुष्टस्य कुर्वतोऽपि पराक्रमान् ॥ १९१ सर्वस्वमपि यो दद्यात्कलुषेणान्तरात्मना । न तेन धर्मभाक्स स्याद्भाव एवात्र कारणम् ॥ १९२ एवं देवाः सपितर ऋषयो मनवस्तथा । तेषां स्थानममुष्मिंस्तु संस्थितानां प्रचक्षते ॥ १९३ अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् । स्मृतं तु तेषां तत्स्थानं तदेव गुरुवासिनाम् ॥ १९४ सप्तर्षीणां तु यत्स्थानं स्मृतं तद्वै दिवौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् ॥ १९५ योगिनाममृतं स्थानं नानाधीनां न विद्यते । स्थानान्याश्रमिणां तानि ये स्वधर्मे व्यवस्थिताः ॥ १९६ चत्वार एते पन्थानो देवयाना विनिर्मिताः । ब्रह्मणा लोकतन्त्रेण आद्ये मन्वन्तरे भुवि ॥ १९७ पन्थानो देवयानाय तेषां द्वारं रविः स्मृतः । तथैव पितृयानानां चन्द्रमा द्वारमुच्यते ॥ १९८ एवं वर्णाश्रमाणां वै प्रविभागे कृते तदा । यदाऽस्य न व्यवर्तन्त प्रजा वर्णाश्रमात्मिकाः ॥ १९९ ततोऽन्या मानसीः सोऽथ त्रेतामध्येऽसृजत्प्रजाः । आत्मनः स्वशरीराच्च तुल्याश्चैवात्मना तु वै ॥ २०० तस्मिंस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु । ततोऽन्या मानसीस्तत्र प्रजाः स्रष्टुं प्रचक्रमे ॥ २०१