भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 418, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 418

[अ० १०१-श्लो० २४७-२७१] वायुपुराणम् ४०९

( शिवपुरवर्णनम् )

मध्ये पुरवरेन्द्रस्य तस्यामतितॆजसा । सुमहान्मेरुसंकाशो दिव्यो भद्रश्रिया वृतः ॥ २४७
सहस्रपादः प्रासादस्तपनीयमयः शुभः । अनुपमेयै रत्नैश्र्व सर्वतः स विभूषितः ॥ २४८
स्फटिकैश्चन्द्रसंकाशैर्वैदूर्यैः सोमसंप्रभैः । बालसूर्यप्रभैश्चैव सौवर्णैश्चाभिसंप्रभैः ॥ २४९
राजतैश्चापि शुशुभे इन्द्रनीलमयैः शुभैः । दृढैर्वज्रमयैश्चैव इत्येवं सुसमाहितैः ॥ २५०
जलैश्र्व विविधाकारैर्दीप्यद्भिरधिवासितम् । चन्द्ररश्मिप्रकाशाभिः पताकाभिरलंकृतम् ॥ २५१
रुक्मघण्टानिनादैश्च नित्यप्रमुदितोत्सवः । किंनराणामधीवासैः । संध्याभ्राकारराजितैः ॥ २५२
पारिवारसमन्तात्तु हेमपुष्पोदकप्रभैः यथा । हि मेरुशैलेन्द्रो हेमशृङ्गैर्विराजते ॥ २५३
( * चामीकरमयीभिस्तु पताकाभिस्तथा पुरम् । एवं प्रासादराजोऽसौ भूमिकाभिर्विराजते ॥ २५४
वसन्तप्रीतमा यत्र त्र्यम्बकस्य निवेशने । लक्ष्मीः श्रीश्च वपुर्माया कीर्तिः शोभा सरस्वती ॥ २५५
देव्या वै सहिता ह्येता रूपगन्धसमन्विताः । नित्या ह्यपरिसंख्याताः परस्परगुणाश्रयाः ) ॥
भूषणं सर्वरत्नानां योन्यः कान्तिविलासयोः ॥ २५६
कोटीशतं महाभाग विभज्याऽऽत्मानमात्मना । भगवन्तं महात्मानं प्रतिमोदन्त्यतन्द्रिताः ॥ २५७
तासां सहस्रशश्चान्याः पृष्ठतः परिचारिकाः । रूपिण्यश्च श्रिया युक्ताः सर्वाः कमललोचनाः ॥ २५८
लीलाविलाससंयुक्तैर्भावैरतिमनाहरैः । गणैस्ताः सह मोदन्ते शैलाभैः पावकोपमैः ॥ २५९
कुब्जा वामनिकाश्चैव वरगात्रा ह्याननाः । पुण्ड्राश्च विकटाश्चैव करालास्त्रिपिटाननाः ॥ २६०
लम्बोदरा ह्रस्वभुजा त्रिनेत्रा ह्रस्वपादिकाः । मृगेन्द्रवदनाश्चान्या गजवक्त्रोदरास्तथा ॥ २६१
गजाननास्तथैवान्याः सिंहव्याघ्राननास्तथा । लोहिताक्षा महास्तन्यः सुभगाश्चारुलोचनाः ॥ २६२
ह्रस्वकुञ्चितकेशाश्च सुन्दर्यश्चारुलोचनाः । अन्याश्च कामरूपिण्यो नानावेषधराः स्त्रियः ॥ २६३
अभ्यन्तरपरिस्कन्धा देवावासगृहोचिताः । × रराम भगवांस्तत्र दशबाहुर्महेश्वरः ॥ २६४
नन्दिना च गणैः सार्धं विश्वरूपैर्महात्मभिः । तथा रुद्रगणैश्चापि तुल्यौदार्यपराक्रमैः ॥ २६५
पावकात्मजसंकाशैर्दंष्ट्रोत्कटाननैः । वन्द्यमानो विमानस्थ ( स्थैः ) पूज्यमानश्च तत्परैः ॥ २६६
सर्वर्तुकुसुमां मालां जिघ्रमा ÷ णोरसि स्थिताम् । नीलोत्पलदलश्यामं पृथुताम्रायतेक्षणम् ॥ २६७
ईषत्कराललम्बोष्ठं तीक्ष्णदंष्ट्रागणाञ्चितम् । षडूर्ध्वनेत्रं दुष्प्रेक्ष्यं रुचिरं चीरवाससम् ॥ २६८
आहवेष्वपरिक्लिष्टं देवानामरिनाशनम् । बाहुना बाहुमावेश्य पार्श्वे सव्येऽन्तरे स्थितम् ॥ २६९
रराज पट्टिशं तस्य वामाग्रकरगोचरम् । महाभैरवनिर्घोषं बलेनाप्रतिमौजसम् ॥
दशवर्णधनुश्चैव विचित्रं शोभतेऽधिकम् ॥ २७०
त्रिशूलं विद्युदाभासममोघं शत्रुनाशनम् । जाज्वल्यमानं वपुषा परमं तच्चिषा युतम् ॥ २७१


*एतच्चिह्नान्तर्गतग्रन्थे पाठव्यत्यासो दृश्यते ख. पुस्तके × अत्र परस्मैपदमार्षम् । ÷अत्र संधिरार्षः ।

५२