वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 42, कुल 465 में से
संदर्भ में पढ़ें[अ० ९ श्लो० ४१-७०] वायुपुराणम् ३३ (देवादिसृष्टिकथनम्) अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः । ततः स्वच्छन्दतोऽन्यानि वयांसि वयसोऽसृजत् ॥ ४१ छाद्यतस्तानि च्छन्दांसि वयसोऽपि वयांस्यपि । शून्यान्दृष्ट्वा तु देवो वै सृजत्पक्षिगणानपि ॥ ४२ मुखतोऽजान्ससर्जाथ वक्षसश्च वयोऽसृजत् । गाश्चैवाथोदराद्वह्वा पार्श्वभ्यां च विनिर्ममे ॥ ४३ पद्भ्यां चाश्वान्समातङ्गाञ्छरभानन्गवयान्मृगान् । उष्ट्रानश्वतरांश्चैव ताश्चान्याश्चैव जातयः ॥ ४४ ओषध्यः फलमूलानि रोमतस्तस्य जज्ञिरे । एवं पशूषधीः सृष्ट्वा न्ययुङ्क्तसोऽध्वरे प्रभुः ॥ ४५ तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा । गौरजः पुरुषो मेषो ह्यश्वोऽश्वतरगर्दभौ ॥ ४६ एतान्याम्यान्पशूनाहुरारण्यांश्च निबोधत । श्वापदा द्विखुरो हस्ती वानरः पक्षिषञ्चमाः ॥ ४७ उन्दुकाः पशवः सृष्टाः सप्तमास्तु सरीसृपाः । गायत्रं वरुणं चैव त्रिवृत्सौम्यं रथंतरम् ॥ ४८ अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् । छन्दांसि त्रैष्टुभं चैम स्तोमं पञ्चदशं तथा ॥ ४९ बृहत्साममथोक्यंथं च दक्षिणात्सोऽसृजन्मुखात् । (*सामानि जगती छन्दःस्तोमं पञ्चदशं तथा ॥ ५० वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ।) एकविंशमथर्वाणमापोर्यामाणमेव च ॥ ५१ अनुष्टुभं संवैराजमुत्तरादसृजन्मुखात् । विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ॥ ५२ वयांसि च ससर्ज्जाऽऽदौ कल्पस्य भगवानन्प्रभुः । उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ ५३ ब्रह्मणस्तु प्रजासर्गं सृजतो हि प्रजापतेः । सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन्प्रजाः ॥ ५४ ततः सृजति भूतानि स्थावराणि चराणि च । यक्षान्पिशाचान्गन्धर्वास्तथैवाप्सरसां गणान् ॥ ५५ नरकिंनररक्षांसि वयःपशुमृगोरगान् । अव्ययं च व्ययं चैव यदिदं स्थाणुजङ्गमम् ॥ ५६ तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ५७ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ५८ महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । विनियोगं च भूतानां धातैव व्यदधात्स्वयम् ॥ ५९ केचित्पुरुषकारं तु प्राहुः कर्म च मानवाः । दैवमित्यपरे विप्राः स्वभावं दैवचिन्तकाः ॥ ६० पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः । न चैकं न पृथग्भावमधिकं न तयोर्विदुः ॥ ६१ एतदेवं(कं) च नैकं च न चोभे न च वाऽप्युभे । कर्मस्थान्विषयान्ब्रूयुः सत्त्वस्था समदर्शिनः ॥ ६२ नाम रूपं च भूतानां कृतनां च प्रपञ्चनम् । वेदशब्देभ्य एवाऽऽदौ निर्ममे स महेश्वरः ॥ ६३ ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवास्य दधाति सः ॥ ६४ यथर्तार्ट्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ६५ एवंविधासु सृष्टासु ब्रह्मणाऽव्यक्तजन्मना । शर्वर्यन्ते प्रदश्यन्ते सिद्धिमाश्रित्य मानसीम् ॥ ६६ एवं भूतानि सृष्टानि चराणि स्थावराणि च । यदाऽस्य ताः प्रजाः सृष्टा न व्यवर्धन्त धीमतः ॥ ६७ अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् । भृगुं पुलस्त्यं पुलहं क्रतुमाङ्गिरसं तथा ॥ ६८ मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसम् । नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ ६९ तेषां ब्रह्मात्मकानां वै सर्वेषां ब्रह्मवादिनाम् । ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्सम्भवम् ॥ ७०
* धनुश्चिह्नान्तग्रन्थो घ. पुस्तके नास्ति ।
५