भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 422, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 422

[अ० १०१-१०२ श्लो० ३४६-३५५।१-८] वायुपुराणम् । ४१३ ( प्रतिसर्गवर्णनम् )

विष्णुना सह संयुक्तः करोति विकरोति च । स रुद्रो यः साममयस्तथैव च यजुर्मयः ॥ ३४६ स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात् । एको हि भगवान्नाथो ह्यनादिश्रान्तकृद्विजाः ॥ ३४७ ततस्त ऋषयः सर्वे दिवाकरसमप्रभाः । स्वं स्वमाश्रमसंवासमारोप्याग्निं तथाऽऽत्मनि ॥ ३४८ कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना । अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ॥ ३४९ व्रतोपवासनिरताः सर्वभूतदयापराः । योगमनुपमं दिव्यं प्राप्तं तैश्छिन्नसंशयैः ॥ ३५० प्रपद्य परया भक्त्या ज्ञानयुक्तेन तेजसा । तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥ ३५१ यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां स्तुतिम् । * ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा स्वक्रियापरः ॥ लभते रुद्रसालोक्यं भक्तिमान्विगतज्वरः । अमद्यपश्च यः शूद्रो भवभक्तो जितेन्द्रियः ॥ ३५३ आभूतसंप्लवस्थायी अप्रतीघातलक्षणः । गाणपत्यं स लभते स्थानं वा सार्वकामिकम् ॥ ३५४ मद्यपो मद्यपैः सार्धं भूतसंघैश्च मोदते । सोऽर्च्यमानो महीपृष्ठे मर्त्यानां वरदो भवेत् ॥ इति होवाच भगवान्वायुर्वाक्यमिदं वरः ॥ ३५५

इति श्रीमहापुराणे वायुप्रोक्ते शिवपुरवर्णनं नामैकशततमोऽध्यायः ॥ १०१ ॥

आदितः श्लोकानां समष्ट्यङ्काः-१०११५

अथ द्व्यधिकशतमोऽध्यायः ।

प्रतिसर्गवर्णनम् ।

सूत उवाच-- प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयंभुवः । ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ॥ १ यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः । अव्यक्तान्यसते व्यक्तं प्रत्याहारे च कृत्स्नशः ॥ २ परं तदनु कल्पानामपूर्णे कल्पसंक्षये । उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ॥ ३ अन्ते द्रुमस्य संप्ताप्ते पश्चिमस्य मनोस्तदा । अन्ते कलियुगे तस्मि(×न्क्षीणे संहार उच्यते ॥ ४ संप्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते । प्रत्याहारे तदा तस्मिन्भूततन्मात्रसंक्षये ॥ ५ महदादेर्विकारस्य विशोपान्तस्य संक्षये । स्वभावकारिते तस्मि)न्प्रवृत्ते प्रतिसंचरे ॥ ६ आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मकं गुणम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ प्रविष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् ॥ ७ आपस्तदा प्रनष्टा वै वेगवत्यो महास्वनाः । सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च ॥ ८


* इत उत्तरमधिकमर्धं ख. पुस्तके तद्यथा-शिवलोके स वसति यावदाभूतसंप्लवम् । इति । × धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति ।