वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 428, कुल 465 में से
संदर्भ में पढ़ें[अ० १०२-१०३ श्लो० ३-२९] । वायुपुराणम् । ४१९
(सृष्टिवर्णनम्)
अत्यद्भुतानि कर्माणि विधिमान्धर्मनिश्चयः । विचित्राश्च कथायोगा जन्म चाग्नेयमनुत्तमम् ॥ ३ तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा । मनःकर्णसुखं सौते प्रीणात्याभूतसंभवम् ॥ ४ एवमाराध्य ते सूतं सत्कृत्य च महर्षयः । पप्रच्छुः सत्रिणः सर्वे पुनः सर्गप्रवर्तनम् ॥ ५ [* कथं सूत महाप्राज्ञ पुनः सर्गः प्रपत्स्यते । बन्धेषु संप्लीनेषु गुणसाम्ये तमोमये ॥ ६ विकारेष्वविसृष्टेषु अव्यक्ते चाऽऽत्मनि स्थिते । + अप्रवृत्ते ब्राह्मणानु महासायो(यु)ज्यगैस्तदा ॥ कथं प्रपस्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ॥ ७ एवमुक्तस्ततः सूतस्तदाऽसौ लोमहर्षणः । व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्तनम् ] ॥ ८ अहं वो वर्तयिष्यामि यथा सर्गः प्रपत्स्यते । पूर्ववत्स तु विज्ञेयः समासात्तं निबोधत ॥ ९ दृष्टं चैवानुमेयं च तर्कं वक्ष्यामि युक्तितः । तस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ १० अव्यक्तवत्परोक्षत्वादग्रहणं तद्दुरासदम् । विकारैः प्रतिसंहृष्टे गुणसाम्ये निवर्तते ॥ ११ प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति । धर्माधर्मौ प्रलीयेते अव्यक्तौ प्राणिनां सदा ॥ १२ सत्त्वमात्रात्मको धर्मो गुणसत्त्वे प्रतिष्ठितः । तमोमात्रात्मकोऽधर्मो गुणे तमसि तिष्ठति ॥ १३ अविभागवन्तावेतौ गुणसाम्यस्थितावुभौ । सर्वकार्ये बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ॥ १४ अबुद्धिपूर्वं क्षेत्रज्ञो ह्यधितिष्ठास्यति तान्गुणान् । एवं तानभिमानेन प्रपत्स्येत पुरस्तदा ॥ १५ यदा प्रवर्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः । भोज्यभोक्तृत्वसंबन्धं प्रपत्स्येते युतावुभौ ॥ १६ तस्माच्छरीणमव्यक्तं साम्ये स्थित्वा गुणात्मकान् । क्षेत्रज्ञाधिष्ठितं तच्च वैषम्यं भजते तु तत् ॥ १७ ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः । क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ॥ १८ महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम् । क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रपत्स्यते ॥ १९ ब्रह्माण्डे प्रथमः सोऽथ भविता चेश्वरः पुनः । ततो ज्ञेयस्य कृत्स्नस्य सर्वभूतपतिः शिवः ॥ २० ईश्वरः सर्वभूतानां ब्रह्मा ब्रह्ममयो महान् । आदिदेवः प्रधानस्यानुग्रहाय प्रवक्ष्यते ॥ २१ अनाद्यौ वरमुत्पादावुभौ सूक्ष्मो तु तौ स्मृतौ । अनादिसंयोगयुतौ सर्वक्षेत्रज्ञमेव च ॥ २२ अबुद्धिपूर्वकं युक्तौ मशकौ तु वरो तदा । अप्रत्ययमानाद्यं च स्थितावुदकमत्स्यशः (?) ॥ २३ प्रवृत्ते पूर्वतः पूर्वं पुनः सर्गे प्रपत्स्यते । अज्ञा गुणैः प्रवर्तन्ते रजःसत्त्वतमात्मकम् ॥ २४ प्रवृत्तिकाले रजसाऽभिषन्नमहत्त्वभूतादिविशेष्यतां च । विशेषतां चेन्द्रियतां च यान्ति गुणावसाने पतिभिर्मनुष्याः ॥ २५ सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम् । रजःसत्त्वतमा व्यक्ता विधर्माणः परस्परम् ॥ २६ आद्यन्ते संप्रपत्स्यन्ते क्षेत्रतज्ज्ञास्तु सर्वशः । संसिद्धकार्यकरणा उत्पद्यन्तेऽभिमानिनः ॥ २७ सर्वे सत्त्वाः प्रपद्यन्ते अव्यक्तात्पूर्वमेव च । प्रसूते या च सुवहाः साधिकाश्चाप्यसाधिका ॥ २८ संसरन्तस्तु ते सर्वे स्थानप्रकरणैः सह । कार्याणि प्रतिपत्स्यन्त उत्पद्यन्ते पुनः पुनः ॥ २९
* धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति । + नास्त्यर्थमिदं घ. पुस्तके ।