भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 429, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 429

४२० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० १० ३ श्लो० ३०-५०] (सृष्टिवर्णनम)

गुणमात्रामकाश्चैव धर्माधर्मौ परस्परम् । आरप्सन्ती(भन्ते)ह चान्योन्यं वरेणानुग्रहेण च ॥ ३० सर्वे तुल्याः प्रवृत्त्यर्थं सर्गादौ यान्ति विक्रियाम् । गुणास्तत्प्रतिधावन्ते तस्मात्तत्तस्य रोचते ॥ ३१ गुणास्ते यानि सर्वाणि यादृष्टेः प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३२ हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३३ महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । विप्रयोगाश्च भूतानां गुणेभ्यः संप्रवर्तते ॥ ३४ इत्येष वो मया ख्यातः पुनः सर्गः समासतः *। समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥ ३५ अव्यक्तात्कारणात्तस्मान्नित्यसत्सदसदात्मकात् । प्रधानपुरुषाभ्यां तु जायते च महेश्वरः ॥ ३६ स पुत्रः संभवपिता जायते ब्रह्मसंज्ञितः । सृजते स पुनर्लोकानाभिमानगुणात्मकान् ॥ ३७ अहंकारस्तु महतस्तस्माद्भूतानि चाऽऽत्मनः । युगपत्संप्रवर्तन्ते भूतान्येवेन्द्रियाणि च ॥ भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्तते ॥ ३८ विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् । कीर्तितं वो यथा पूर्वं तथैवाभ्युपधार्यताम् ॥ ३९ एतच्छ्रुत्वा नैमिषेयास्तदानीं लोकोत्पत्तिं संस्थितिं च व्ययं च ॥ तस्मिन्सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥ ४० यथा यूयं विधिवद्देवतादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः ॥ त्यक्त्वा देहानायुषोऽन्ते कृतार्थान्पुण्याल्लोकान्प्राप्य यथेष्टं चारिष्यथ ॥ ४१ एते ते नैमिषेया वै इष्ट्वा सृष्ट्वा च वै तदा । जगमुश्चावभृतस्नाताः स्वर्गं सर्वे तु सत्रिरणः ॥ ४२ विपास्तथा यूयमापे दृष्ट्वा बहुविधैर्यखैः । आयुषोन्ते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥ ४३ प्रक्रिया प्रथमः पादः कथावस्तुपरिग्रहः । अनुषङ्ग उपोद्घात उपसंहार एव च ॥ ४४ एवमेतच्चतुष्पादं पुराणं लोकसंमतम् । उवाच भगवान्साक्षाद्वायुलौकहिते रतः ॥ ४५ नैमिषे सत्रमासाद्य मुनिमध्ये मुनिसत्तमाः । तत्प्रसादादसंदिग्धं भूतोत्पत्तिलयान्वितम् ॥ ४६ प्राधानिकामियां सृष्टिं तथैवेश्वरकारिताम् । सम्यग्विादित्वा मेधावी न मोहमधिगच्छति ॥ ४७ इमं यो ब्राह्मणो विद्वानितिहासं पुरातनम् । शृणुयाच्छ्रावयेद्वाऽपि तथाऽऽध्यापपयेतऽपि च ॥ ४८ स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः । ब्रह्मसायो(यु)ज्यगो भूत्वा ब्रह्मणा सह मोक्ष्यते ॥ तेषां कीर्तिमंतां कीर्तिं प्रजेशानां महात्मनान्x । प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥ ५० +


* इत उत्तरमयं श्लोकः ख. पुस्तके स यथा-धारणाश्रुतबुद्धीनां योगानां चैव धार्यताम् । यतेन्द्रियाः सुसंबन्धाधारणायोगनिश्चयाः । इति । x इतं परमेते श्लोका अधिका उपलभ्यन्ते ख पुस्तके ते च यथा--इदं यः श्रावयेद्विद्वांस्तस्य चैवोत्तमा गतिः । धनधान्यसुखैश्वर्यं प्राप्यते नात्र संशयः । ब्राह्मणो लभते विद्यां ब्रह्मसायोज्य- मामुयात् । क्षत्रियो जयमामोति सुरलोकोत्तमा गतिम् । वैश्यस्तु धनलाभांव्या धनधान्यलभेत च शूद्रः सुखमवामोति पुत्रपौत्रादिसंयुतः । श्लोकं श्लोकार्धपादं वा योऽधीते शृणुयाद्यतः । अन्ते विष्णुपुरं याति यत्र गत्वा न शोचति । इति । + ब्रह्मभूयाय गच्छतीत्युत्तरमेते श्लोका अधिकाः ख पुस्तके उपलभ्यन्ते ते च यथा-- येनेदं भारतं पुण्यं शृणुयाद्वाऽप्यभीक्ष्णशः । स चापि लभते स्वर्गं वायुमोक्ते प्रसादतः ॥

वायु पुराण · पृष्ठ 429, कुल 465 में से · BharatKosha