भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 441, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 441

४३२ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०१०६-१०७श्लो०७५-८६।१-११] ( गयामाहात्म्यम् ) मधुस्रवां मधुकुल्यां दिव्याञ्चाढ्यसरांसि च । सुवर्णदीर्घिकां चैव बहुनन्नादिपर्वतान् ॥ ७५ भक्ष्यभोज्यफलादींश्च सर्वं ब्रह्मा सृजन्ददौ । न याचयध्वं विप्रेन्द्रा अन्यानुक्त्वा ददावजः ॥ ७६ दत्त्वा ययौ ब्रह्मलोकं नत्वा स्याद्गिदाधरम् । धर्मारण्ये तत्र धर्मं याजयित्वा ययाचिरे ॥ ७७ धर्मयागे च लोभाद्वै प्रतिगृह्य धनादिकम् । ततो ब्रह्मा समागत्य ब्राह्मणांस्ताञ्शशाप ह ॥ ७८ कृतवन्तो यतो लोभं मदत्तेष्वखिलेष्वपि । तस्मादणाधिका यूयं भविष्यन्ति (थ) सदा द्विजाः॥७९ युष्माकं स्यन्दारिवहा नदी पाषाणपर्वता । नद्यादयो वारिवहा मृन्मयाश्च तथा गृहाः ॥ ८० कामधेनुः कल्पवृक्षो मलोकमुपतिष्ठताम् । एवं शप्ता ब्रह्मणा ते प्रार्थयन्तोऽब्रुवन्नजम् ॥ ८१ त्वया यद्दत्तमखिलं तत्सर्वं शापतो गतम् । जीवनार्थं प्रसादं नो भगवन्कर्तुमर्हसि ॥ ८२ तच्छ्रुत्वा ब्राह्मणान्ब्रह्मा प्रोवाचेदं दयान्वितः । तीर्थोपजीविका यूयमाचन्द्रार्कं भविष्यथ ॥ ८३ लोकाः पुण्या गयायां ये श्राद्धिनो ब्रह्मलोकगाः । युष्मान्ये पूजयिष्यन्ति तैरहं पूजितः सदा ॥ आक्रान्तं दैत्यजठरं धर्मेण विरजाद्रिणा । नाभिकूपसमीपे तु देवी या विरजा स्थिता ॥ ८५ तत्र पिण्डादिकं कृत्वा त्रिःसप्तकुलमुद्धरेत् । महेन्द्रागिरिणा तस्य कृतौ पादौ सुनिश्चलौ ॥ तत्र पिण्डादिकृत्सप्त कुलान्युद्धरते नरः ॥ ८६ इति श्रीमहापुराणे वायुप्रोक्ते गयामाहात्म्यं नाम षडधिकशततमोऽध्यायः ॥ १०६॥ आदितः श्लोकानां समष्ट्यङ्काः- १०५६८

अथ सप्ताधिकशततमोऽध्यायः । गयामाहात्म्यम् ।

नारद उवाच-- कथं शिला समुत्पन्ना यथाऽऽक्रान्तो गयासुरः । किं रूपं किं च माहात्म्यं तस्याः किं वद नाम च सनत्कुमार उवाच-- आसीद्धर्मो महातेजाः सर्वविज्ञानपारगः । विश्वरूपा चै तत्पत्नी भर्तृव्रतपरायणा ॥ २ तस्यां धर्मात्समुत्पन्ना कन्या धर्मव्रता सती । रूपयौवनसंपन्ना लक्ष्मीरिव गुणाधिका ॥ ३ तस्यां ये तु गुणा ह्यासंस्ते तिष्ठन्ति जगत्त्रये । धर्मो धर्मव्रतायास्तु त्रिषु लोकेषु मार्गयन् ॥ ४ नानुरूपं वरं लेभे धर्मोऽथ वरसिद्धये । तपः कुरु वरार्थं त्वं तथेत्युक्त्वा वनं ययौ ॥ ५ कन्या सा च तपस्तेपे सर्वेषां दुष्करं च यत् । वायुभक्षा श्वेतकल्पे युगानामयुतं पुरा ॥ ६ ब्रह्मणो मानसः पुत्रो मरीचिर्नाम विश्रुतः । पर्यटन्पृथिवीं सर्वां कन्यारत्नं ददर्श सः ॥ ७ रूपयौवनसंपन्नां परमे तपसि स्थिताम् । पप्रच्छाथ मरीचिस्तां का त्वं कस्यासि तद्वद ॥ ८ रूपेणानेन मां भीरु विमोहयसि सुव्रते । ब्रह्मात्मजोऽहं विख्यातो मरीचिर्वेदपारगः ॥ ९ मरीचेर्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम् । अहं धर्मव्रता नाम धर्मपुत्री 'तपोन्विता ॥ १० पातिव्रतार्थं विप्रेन्द्र चरामि परमं तपः । धर्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्वकम् ॥ ११