भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 442, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 442

[अ० १०७ श्लो० १२-३६] वायुपुराणम् । ४३३

( गयामाहात्म्यम् )

पतिव्रता दर्शनान्मे भविष्यसि शुभव्रते । पतिव्रतेक्षया पृथ्वीं विचरामि सहर्निशम् ॥ १२ त्वं चेत्पतिव्रता जाता भजे त्वां भज मां वरम् । लोके न तादृशी कन्या मम तुल्यो न ते वरः ॥ १३ धर्मव्रते धर्मपत्नी तस्मात्त्वं भव मेऽधुना । धर्मव्रता मुनिं प्राह धर्मं याचय सुव्रत ॥ १४ तच्छ्रुत्वा धर्ममगमन्मुनिं धर्मो ददर्श ह । तेजःपुञ्जं वरं नत्वा आसनाद्यैर्दिनाऽर्चयत् ॥ १५ किमर्थमागतः पृष्टो मरीचिर्धर्ममब्रवीत् । कन्यार्थं भ्रमता पृथ्वीं दृष्टा ते कन्यका वरा ॥ मह्यं कन्यां च तां देहि श्रेयस्तव भविष्यति ॥ १६ अर्घ्यादिना समभ्यर्च्य धर्मः प्रोचे तथेति तम् । धर्मव्रतां समानीय दत्तवांस्तां मरीचये ॥ १७

  • ब्राह्मणेन विवाहेन धनरत्नादिकं ददौ । वरं च दत्तवांस्तस्मै तदाकं यत्तथा कृतम् ॥ अग्निहोत्रेण सहितां स्वाश्रमं तां द्विजोऽनयत् ॥ १८ रेमे मुतिस्तया सार्धं यथा विष्णुः श्रिया सह । पार्वत्या च यथा शंभुः सरस्वत्या यथा ह्यजः ॥ १९ जज्ञे पुत्रशतं तस्यां मरीचेर्विष्णुनोपमम् । मरीचिः फलपुष्पार्थं वनं गत्वा समागतः ॥ २०
  • श्रान्तः कदाचितां पत्नीमुवाचेति पतिव्रताम् । भुक्त्वा तु शयनस्थस्य पादसंवाहनं कुरु ॥ २१ धर्मव्रता तथेत्युक्त्वा शयनस्थस्य सा मुनेः । पादसंवाहनं चक्रे घृतेनाभ्यज्य तत्परा ॥ २२ निद्रायमाणेऽथ मुनौ ब्रह्मा तं देशमागतः । ✕ इयेष दृष्ट्वा ब्रह्माणं मनसाऽर्चितुं प्रभुम् ॥ २३ पादसंवाहनं कुर्यां किं पूज्योऽयं जगद्गुरुः । इत्याकुला समुत्तस्थौ मत्वा सा तं गुरोर्गुरुम् ॥ २४ अर्घ्यपाद्यादिकं दत्त्वा ब्रह्माणं समपूजयत् । सत्कृतायां तु शय्यायां विश्राममकरोदजः ॥ २५ एतस्मिन्नन्तरे भर्ता समुत्तस्थौ स्ववल्पतः । धर्मव्रतामपश्यन्स विप्रः क्रुद्धः शशाप ताम् ॥ २६ पादसंवाहनं त्यक्त्वा यस्मादाज्ञां विहाय मे । गताऽन्यत्र ततः पापाच्छापदग्धा शिला भव ॥ २७ भर्त्रा धर्मव्रता शप्ता मरीचिं प्राह सा रुषा । शयाने त्वयि संप्राप्ते ब्रह्मा त्वज्जनको गुरुः ॥ २८ त्वयोत्थाय हि कर्तव्यं स्वगुरोः पूजनं सदा । मया तु धर्मचारिण्या तव कार्ये कृते मुने ॥ २९ अदोषाऽहं यतः शप्ता तस्माच्छापं ददामि ते । त्वं च शापं महादेवाद्धतं प्राप्स्यस्यसंशयम् ॥ ३० ÷ व्याकुलं तं पतिं दृष्ट्वा व्याकुलाऽगात्प्रजापतिम् । नत्वा शयानं ब्रह्माणमग्निं प्रज्वाल्य चेन्धनैः ॥ ३१ गार्हपत्ये स्थिता चक्रे तपः परमदुष्करम् । तथा शप्तो मरीचिश्च तपस्तेपे सुदारुणम् ॥ ३२ पतिव्रतायास्तपसा मरीचेस्तपसा तथा । इन्द्रादयश्च संतप्ता गतास्ते शरणं हरिम् ॥ ३३ ऊचुः क्षीराम्बुधौ सुप्तं संतप्तास्तपसा हरे । पतिव्रतायाश्च मुनेस्त्रैलोक्यं रक्ष केशव ॥ ३४ इन्द्रादीनां वचः श्रुत्वा विष्णुर्धर्मव्रतो ययौ । एतस्मिन्नेव काले तु प्रबुद्धो भगवानजः ॥ ऊचुर्धर्मव्रतां देवा अग्निस्थां तां सकेशवाः ॥ ३५ अग्निमध्ये तपः कर्तुं कस्य शक्तिः पतिव्रते । त्वया कृतं तत्परमं सर्वलोकभयंकरम् ॥ ३६

  • इदमर्धं नास्तिक पुस्तके । + इत आरभ्य मुनेरित्यन्तं नास्ति ख. पुस्तके । ✕ नास्त्विदमर्धं ख. पुस्तके ।
    ÷ एतच्छ्लोकस्थानेऽयं श्लोकः क. पुस्तके — तं व्याकुलं पतिं दृष्ट्वा व्याकुला सा पतिव्रता । पतिव्रतात्वमाहात्म्यात्पत्युः शापं दधार सा ।
    ५५