वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 111, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text from the image, preserving all Vedic citations, references, and punctuation:
[पृष्ठ १९८]
तिर्यगूरसप्रसार एव शाखापर्णादिजनकः । तस्यैव च रसस्य पर्णपुष्प- फलादिरूपेण परिणामः” इति । तदपि न किञ्चित्; धरणिजलानिलादियोगेनैव बीजाद् वृक्षादीना- मुत्पत्तिप्रसिद्धेः । तत्र सति विधाने कस्मैचित् फलाय यज्ञत्वारोपोऽपि कर्तुं शक्यते । विधानाभावात्तु वृथैव तत्कल्पनम् । अत एव मन्त्रेषु न यज्ञत्वोक्तिर्दृश्यते । विहितानामेव चाग्नौ सोमप्रक्षेपादीनां यागत्वम् , न स्वरूपेण सताम् । यदुक्तम्—'कस्य वृक्षलतादेः कियती प्रसृतिरूर्ध्वं तिर्यग्वेति सर्वमिदं मूले स्थितस्य प्राणस्याऽऽयत्तम् । सेयं मूलशक्तिरेव अस्यामृचि प्रतरं गुहामिति सङ्केतिता । प्रसरतः पार्थिवस्य रसस्य कृष्णवर्णताया आदित्यस्य च 'पिशङ्गं द्रापिं प्रतिमुञ्चते कविः' (ऋ० सं० ४.५३.२) इति पीतवर्णवायाः श्रुतत्वेन उभयोः संयोगाद्धरितं रूपं वृक्षपर्णादिषु उपलभ्यते । यदा तु यमेन प्रतिद्धो रसे नोपसर्पति तदा केवलस्याऽऽदि- त्यस्य पीतमेव रूपं पर्णेषु प्रतिभासते । तदा मूलात् प्रवर्त्यं प्रावोऽयमग्निः पृथगवस्थया पर्णादिषु स्थिरो भवति । एवमेव शुष्केष्वन्नेष्वपि भिन्नयैव अवस्थया अग्नेरवस्थितिः । ते उभे अप्यवस्थे पृथगुचि प्रतिपादिते— 'अग्निर्वे शर्माण्यान्तानि प्रयच्छति' इति । ब्राह्मणेषु च विस्पष्टीकृतं विवरणमि'ति । तदपि न क्षोदक्षमम्; तत्तत्सहकारिसापेक्ष-बीजशक्त्यनुसारेणैव वृक्षलतादीनां तिर्यगूर्ध्वादिसप्ररणोपपत्तौ प्रागायत्तत्वकल्पनाया अन्यथा- सिद्धत्वान्न, निष्प्रमाणकत्वाच्च । अन्वयव्यतिरेकौ च तत्रैव सङ्गतौ । तथा हि—क्षीणाद्बीजाद्भूष्यां भूमौ तत्तदुपवजलाद्यभावे अल्पप्रसरमङ्कु- रादिकं जायते । पुष्टाद्बीजादुर्वरायां भूमावुपचादिसाहचर्याद् बृहत्प्रसरत् तदुपलभ्यते । किञ्च—अद्यत्वे तु विविधोपचजल विद्युदादिसमवधानेन स्वेच्छया तत्तत्प्रसङ्गादिकं सम्पाद्यते । यदि प्रजापतिशक्तिरपि तदनुविधायिन्येव तर्हि कृतं बराक्या तया, तैरेव तदुपपत्तेः । तथा च यथा बीजशक्त्यनुरोधिनः
[पृष्ठ १९९]
अङ्कुर-नाल-स्कन्ध-पत्र-पुष्प-फल-रसादिभेदास्तथैव तत्प्रसरणादिकमपि तदनुरोध्येवेति मन्तव्यम् । 'प्रतरं गुहाम्' इति पदाभ्यां कथं प्रागशक्तिः सङ्केतितेति तु नावगन्तुं शक्यते । 'प्रतरं प्रकृष्टतरं गुहां तासां वीरुधां मूलमिति तु सायणाक्तिः श्लिष्यते, तत्राप्यग्नेः प्रसर्पणस्य दृष्टत्वात् । एवं रसादिवद्वर्णादि- व्यवस्थाऽपि बीजशक्त्यनुसारिण्येवेति तत्रापि कारणान्तरान्वेषणं व्यर्थमेव । 'पिशङ्गं द्रापिमिति पूर्णो मन्त्रस्त्वित्थम्— 'दिवो धर्त्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः । विचक्षणः प्रथयन्नापृणन्वूर्वजीजनत् सविता सुम्नमूक्थ्यम् ॥ (ऋ० सं० ४.५३.२) तदर्थस्तु—दिवो धर्ता धारकः । न केवलं दिवः, अपि तु भुवनस्य कृत्स्नस्य लोकस्य धर्ता प्रजापतिः, प्रकाशवृष्ट्यादिना प्रजानां पालयिता । कविः प्राज्ञो देवः पिशङ्गं द्रापिं हिरण्यमयं कवचं प्रतिमुञ्चते आच्छा- दयति प्रत्युदयम् । विचक्षणः विविधं द्रष्टा स एव देवः प्रथयन् प्रख्या- पयन् तेजः आपृणन् आपूरयन् परितः उरु प्रभूतं सुम्नं सुखम् उक्थ्यं स्तुत्यम् अजीजनत् उत्पादयति । एवं यदुक्तम्—“ऋत्विजमिति तृतीयं विशेषणमपि, ऋतुभिर्यजति इति, ऋतून् यजति ददाति इति वा तस्यार्थः । प्रथमे विग्रहे ऋतवस्य सौराग्नेरवयवा एव ऋतुशब्दार्थः । द्वितीये तु तत्तत्फलपुष्पादिजनकत्वेन प्रसिद्धकालः, स काल एव ऋतुशब्दार्थः । उभयथापि सौराग्निना सङ्गतोऽयं पार्थिवोऽग्निः तत्तद्ऋतुव्यपदेशप्रयोजक इति सिद्ध्यति । सौरस्य संवत्सररूपतामाप्रस्य अग्नेरेपेक्षयैव ऋतूनां नामान्यपि कृप्तानि । अग्नयोऽत्र वसन्तः क्रमेण सर्वत्र व्याप्सुवानाः सन्ति स कालो वसन्तः । यदा तु सर्वानर्थान् गूढानः आत्मसात्कुर्वाणोऽस्ति स कालो ग्रीष्मः, ग्रहघातोर्निष्पन्नतवात् । यदा तेऽग्नयः प्रवृद्धा भवन्ति तदा वर्षा, वृध् धातोः निष्पन्नतवात् । शरन्तोऽग्नयो यत्र स शरत्कालः । हीनवायां