भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 111, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 111

Here is the complete, line-by-line transcription of the Sanskrit text from the image, preserving all Vedic citations, references, and punctuation:

[पृष्ठ १९८]

तिर्यगूरसप्रसार एव शाखापर्णादिजनकः । तस्यैव च रसस्य पर्णपुष्प- फलादिरूपेण परिणामः” इति । तदपि न किञ्चित्; धरणिजलानिलादियोगेनैव बीजाद् वृक्षादीना- मुत्पत्तिप्रसिद्धेः । तत्र सति विधाने कस्मैचित् फलाय यज्ञत्वारोपोऽपि कर्तुं शक्यते । विधानाभावात्तु वृथैव तत्कल्पनम् । अत एव मन्त्रेषु न यज्ञत्वोक्तिर्दृश्यते । विहितानामेव चाग्नौ सोमप्रक्षेपादीनां यागत्वम् , न स्वरूपेण सताम् । यदुक्तम्—'कस्य वृक्षलतादेः कियती प्रसृतिरूर्ध्वं तिर्यग्वेति सर्वमिदं मूले स्थितस्य प्राणस्याऽऽयत्तम् । सेयं मूलशक्तिरेव अस्यामृचि प्रतरं गुहामिति सङ्केतिता । प्रसरतः पार्थिवस्य रसस्य कृष्णवर्णताया आदित्यस्य च 'पिशङ्गं द्रापिं प्रतिमुञ्चते कविः' (ऋ० सं० ४.५३.२) इति पीतवर्णवायाः श्रुतत्वेन उभयोः संयोगाद्धरितं रूपं वृक्षपर्णादिषु उपलभ्यते । यदा तु यमेन प्रतिद्धो रसे नोपसर्पति तदा केवलस्याऽऽदि- त्यस्य पीतमेव रूपं पर्णेषु प्रतिभासते । तदा मूलात् प्रवर्त्यं प्रावोऽयमग्निः पृथगवस्थया पर्णादिषु स्थिरो भवति । एवमेव शुष्केष्वन्नेष्वपि भिन्नयैव अवस्थया अग्नेरवस्थितिः । ते उभे अप्यवस्थे पृथगुचि प्रतिपादिते— 'अग्निर्वे शर्माण्यान्तानि प्रयच्छति' इति । ब्राह्मणेषु च विस्पष्टीकृतं विवरणमि'ति । तदपि न क्षोदक्षमम्; तत्तत्सहकारिसापेक्ष-बीजशक्त्यनुसारेणैव वृक्षलतादीनां तिर्यगूर्ध्वादिसप्ररणोपपत्तौ प्रागायत्तत्वकल्पनाया अन्यथा- सिद्धत्वान्न, निष्प्रमाणकत्वाच्च । अन्वयव्यतिरेकौ च तत्रैव सङ्गतौ । तथा हि—क्षीणाद्बीजाद्भूष्यां भूमौ तत्तदुपवजलाद्यभावे अल्पप्रसरमङ्कु- रादिकं जायते । पुष्टाद्बीजादुर्वरायां भूमावुपचादिसाहचर्याद् बृहत्प्रसरत् तदुपलभ्यते । किञ्च—अद्यत्वे तु विविधोपचजल विद्युदादिसमवधानेन स्वेच्छया तत्तत्प्रसङ्गादिकं सम्पाद्यते । यदि प्रजापतिशक्तिरपि तदनुविधायिन्येव तर्हि कृतं बराक्या तया, तैरेव तदुपपत्तेः । तथा च यथा बीजशक्त्यनुरोधिनः


[पृष्ठ १९९]

अङ्कुर-नाल-स्कन्ध-पत्र-पुष्प-फल-रसादिभेदास्तथैव तत्प्रसरणादिकमपि तदनुरोध्येवेति मन्तव्यम् । 'प्रतरं गुहाम्' इति पदाभ्यां कथं प्रागशक्तिः सङ्केतितेति तु नावगन्तुं शक्यते । 'प्रतरं प्रकृष्टतरं गुहां तासां वीरुधां मूलमिति तु सायणाक्तिः श्लिष्यते, तत्राप्यग्नेः प्रसर्पणस्य दृष्टत्वात् । एवं रसादिवद्वर्णादि- व्यवस्थाऽपि बीजशक्त्यनुसारिण्येवेति तत्रापि कारणान्तरान्वेषणं व्यर्थमेव । 'पिशङ्गं द्रापिमिति पूर्णो मन्त्रस्त्वित्थम्— 'दिवो धर्त्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः । विचक्षणः प्रथयन्नापृणन्वूर्वजीजनत् सविता सुम्नमूक्थ्यम् ॥ (ऋ० सं० ४.५३.२) तदर्थस्तु—दिवो धर्ता धारकः । न केवलं दिवः, अपि तु भुवनस्य कृत्स्नस्य लोकस्य धर्ता प्रजापतिः, प्रकाशवृष्ट्यादिना प्रजानां पालयिता । कविः प्राज्ञो देवः पिशङ्गं द्रापिं हिरण्यमयं कवचं प्रतिमुञ्चते आच्छा- दयति प्रत्युदयम् । विचक्षणः विविधं द्रष्टा स एव देवः प्रथयन् प्रख्या- पयन् तेजः आपृणन् आपूरयन् परितः उरु प्रभूतं सुम्नं सुखम् उक्थ्यं स्तुत्यम् अजीजनत् उत्पादयति । एवं यदुक्तम्—“ऋत्विजमिति तृतीयं विशेषणमपि, ऋतुभिर्यजति इति, ऋतून् यजति ददाति इति वा तस्यार्थः । प्रथमे विग्रहे ऋतवस्य सौराग्नेरवयवा एव ऋतुशब्दार्थः । द्वितीये तु तत्तत्फलपुष्पादिजनकत्वेन प्रसिद्धकालः, स काल एव ऋतुशब्दार्थः । उभयथापि सौराग्निना सङ्गतोऽयं पार्थिवोऽग्निः तत्तद्ऋतुव्यपदेशप्रयोजक इति सिद्ध्यति । सौरस्य संवत्सररूपतामाप्रस्य अग्नेरेपेक्षयैव ऋतूनां नामान्यपि कृप्तानि । अग्नयोऽत्र वसन्तः क्रमेण सर्वत्र व्याप्सुवानाः सन्ति स कालो वसन्तः । यदा तु सर्वानर्थान् गूढानः आत्मसात्कुर्वाणोऽस्ति स कालो ग्रीष्मः, ग्रहघातोर्निष्पन्नतवात् । यदा तेऽग्नयः प्रवृद्धा भवन्ति तदा वर्षा, वृध् धातोः निष्पन्नतवात् । शरन्तोऽग्नयो यत्र स शरत्कालः । हीनवायां

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 111, कुल 237 में से · BharatKosha