भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 113, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 113

२०२ वेदस्वरूप-विमर्शः इति मनुः (२।१४३) तेऽद्ययज्ञे षोडश भवन्ति (शब्दार्थचिन्ता- मणिः) तेन ऋत्विक्शब्दो याजकादिपर एव । यच्च - "होतारमिति चतुर्थविशेषणं हेञ्-धातोर्निष्पाद्य ब्राह्मणेपु व्याख्यातम् । तेन अग्निद्देवानाह्वयति, अग्निद्वारैव अस्माकं सौर- मण्डलस्थैर्देवैः सम्बन्ध इति गम्भीरतत्त्वं विज्ञायते, यद्यपि सर्वथा- परोक्षं वैज्ञानिकानामिविति । तदपि न किञ्चित्; वैदिकप्रसिद्धेरेव वेदार्थो- पपत्तेः । तथा हि-होतृनामकेन ऋत्विजा मन्त्रैर्देवा नामाह्वानं विहितम् । अग्निरपि देवेषु ब्राह्मणो होतृनामक ऋत्विक् चासीत् । मन्त्रशक्तिश्च अचिन्त्या वैदिकैरभ्युपेयत एव । तेन मन्त्रैर्देवा नामाह्वानं सङ्गच्छते । यदपि- "रत्नधातममिति रत्नानामुत्पादयितेति भूगर्भविज्ञानं स्फुटयति" इति । तदपि न शोभनम्; यतः प्रकृतयज्ञादिप्रसङ्गे नानाविध- फलरूप-रत्नधारयितृत्वरूपस्यैवार्थस्य समञ्जसत्वात् । किञ्च-धर्मब्रह्म निरूपणप्रसङ्गेन अनेके लौकिकालौकिकाश्च अर्था मन्त्रेभ्यो ब्राह्मणेभ्यश्च प्रस्फुटन्ति, इत्यत्र नास्ति विप्रतिपत्तिः । परं तावतैव 'रत्नधातमम्' इत्यनेनैव भूगर्भविज्ञानं कथं सिद्ध्यति ? 'अग्निर्हिमस्य भेषजम्'ति प्रत्यक्षसिद्धमपि अर्थमनुवदत्येव श्रुतिरर्थान्तर- विवक्षया । इतिहासवर्णनमपि पुराकल्पार्थवादरूपमेव, अनादि- वेदे घटनानुसारीतिहासस्यासम्भवात् । वेदशब्देभ्यो जगज्जन्मश्रवणाद् वैदिकशब्दानुसारिण्यो भवन्त्यो घटनास्तु न वार्यन्ते । वैदिकलट्‌लङादीनां कालसामान्यमेवार्थ इत्युक्तमेव । तेन अनादिवैदिकगम्या यज्ञा नित्यसिद्धा अपि कस्मिंश्चित् कल्पादौ कैश्चिदङ्गसम्प्रदाय एव प्रवर्तितः, तस्यैव सङ्केतो निम्नोद्धृतेन (ऋ० सं० १, १६५, ५०) मन्त्रेण भवति- 'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥' इति । तदर्थस्तु-यथा इन्द्रादयो देवा यज्ञेन ज्योतिष्टोमेन यज्ञपुरुषं वासुदेवं विधिना अयजन्त, यतस्तानि यजनरूपाणि धर्माणि प्रथमान्यासन् । ते ह महाभाग्ययुक्ताः नाकं स्वर्गं सचन्त सेवन्ते यत्र पूर्वे साध्याः प्रथमे सुराः विद्यन्ते सन्ति देवा तेजसा देदीप्यमानाः । तेन प्रवाहनित्यायां

वेदस्वरूप-विमर्शः २०३ सृष्टौ पूर्ववदेव यज्ञादिपारम्पर्यं प्रचलति । 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पत्' (ऋ० सं० १०.१९०.३) इत्यादि-मन्त्रवर्णात् । यच्च- "इषे त्वोर्जे त्वे'ति व्याख्याने उक्तम्, इडित्यन्नम् । ऊर्गिति बलम्, तद्वायोरेव अन्नबलसम्पादकत्वं वृष्टिद्वारेणेति वायोर्र्गुणाः । वायौ च गतिः सूर्यप्रेरणयैवेति विज्ञानसिद्धान्तः स्फुटीभवति । हे वायवः सविता देवो वः प्रार्पयतु प्रेरयतु । सूर्यप्रेरणया वायो गतेः सुप्रतिपन्नत्वात् । सवितृप्रसूत एष पवते इति शतपथे व्याख्यातत्वात् । किञ्च-यज्ञो हि श्रेष्ठतमं कर्म, तस्मै यूयमाप्यायध्वम्, परिपुष्टा भवत । व्याख्यातत्पूर्वस्य प्राकृतयज्ञस्य वायुपरिपोषाधीनत्वमत्र शिक्षितमिति । तन्न; तादृशार्थस्य मन्त्राक्षराननुगमात् । त्वा त्वा स्थ इति पदत्रयस्य अर्थानुक्तेश्च । मन्त्रस्तु- 'इषे त्वोर्जे त्वा वायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे। आप्यायध्वमघ्न्याऽ इन्द्राय भागं प्रजावतीरनमीवा अयक्ष्मा मावस्तेन ऽईशत माघशंसो ध्रुवा अस्मिन् गोपतो स्यात बह्वीर्यजमानस्य पशून् पाहि ॥' (यजुःसंहिता, १. १) इति । मन्त्रस्यास्य न भवदभिमतस्य प्राकृतयज्ञस्य श्रेष्ठतमत्वकथनेऽभिप्रायः, तस्य स्वतःसिद्धत्वात्, ब्राह्मणसूत्रानन्वयाच्च । महीधरानुसारी त्वय- मर्थोऽस्य मन्त्रस्य- 'तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्दर्शपूर्णमासौ' इति श्रुतेरुक्तमन्त्राणां परमेष्ठी प्राजापत्य ऋषिः । 'ते देवा अकामयन्त' इत्यु- क्रम्य तत एतं हविर्यज्ञं दृष्टशुर्यद्दर्शपूर्णमासौ देवानामार्षं कथ्यते । सर्वाण्येव यजूंष्यस्मिन्नध्याये । पुरा क्रूरस्येतीयं त्रिष्टुप् । अन्यत्तुच्छन्धा इषे त्वा इति द्विपदो मन्त्रः, त्र्यक्षरत्वाद्देवत्यनुष्टुप् । 'इषे त्वा शाखां छिनत्ती'ति श्रुत्या शाखाच्छेदे विनियुक्तः। न चाख्यातमुपलभ्यतेऽत्र । न ह्याख्यातं विना वाक्यं किञ्चिद्विधत्ते इत्यध्याहारेण वाऽनुषङ्गेण वा वाक्यपूर्तिः कर्तव्या । तत्र लौकिकोऽध्याहारो भवति । यथा-पिनष्टि प्राणाय त्वेति प्रतिमन्त्रं प्राणाय त्वा पिनष्मि इति । अनुपङ्गस्तु