वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 122, कुल 237 में से
संदर्भ में पढ़ें१२० वेदस्वरूप-विमर्शः शब्दाभ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभिप्रवन्त नसन्त च, स ताश्च हर्यति । यदप्युक्तम् - "तिस्रो मातृः तिस्रो भूमीर्धारयत्' इत्यादिभिरपि मन्त्रैः सूर्यकृतं पृथिव्यादिधारणं सिद्धयति" इति । तदपि न ; मन्त्रयो- रनयोरन्यार्थकत्वात् । समग्रौ मन्त्रौ मन्त्रार्थचेत्थम्- 'तिस्रो मातृस्त्रीन् पितॄन् बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति । मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥' ( ऋ० सं० १.१६४.१० ) अर्थः-एकः प्रधानभूतः असहायो वा पुत्रस्थानीयः आदित्यः संवत्सराख्यः कालो वा तिस्रः मातृः सस्यवृष्ट्याद्युत्पादयित्रीः, क्षित्यादिलोकत्रयमित्यर्थः । तथा त्रीन् पितॄन् जगतां पालयितॄन् लोक- त्रयाभिमानिनः अग्निवायुसूर्याख्यान् बिभ्रत् सन्, ऊर्ध्वस्तस्थौ उन्नतः अत्यन्तदीर्घस्तिष्ठति भूतभविष्यादात्मना । सूर्यपक्षे सर्वेभ्य उन्नतः । ईम् एनं न अवग्लापयन्ति ग्लानिं नैव कुर्वन्ति । नहि कालः आदित्यो वा अन्येन पराभूयते । दिवः पृष्ठे द्युलोकस्योपरि अन्तरिक्षे मन्त्रयन्ते गुप्तं परस्परं भाषन्ते देवाः । किम् ? विश्वविदं विश्ववेदनसमर्थां विश्वै- र्वन्दनीयां अविश्वमिन्वाम् असर्वव्यापिनीं वाचं गर्जितलक्षणाद् अमुष्य आदित्यस्य सम्बन्धिनों मन्त्रयन्ते इत्यर्थः । यथा लोके पुत्रो मातापित्रोः पोषकत्वेन धारको भवति, तथैवात्र सूर्यस्य संवत्सरस्य वा क्षित्यादिधारयितृत्वम् । नात्र आकर्षणविज्ञान- बोधकः कश्चन शब्दोऽस्ति । 'तिस्रो भूमीर्धारयन् त्रीँ रुत द्यून् त्रीणि व्रता विदथे अन्तरेषाम्। ऋतेनादित्या महि वो महित्वं तदर्यमन् वरुणमित्र चारु ॥' (ऋ० सं० २.२७.८ ) अर्थः- तिस्रो भूमीः । अत्र भूमिशब्दो लोकत्रये वर्तते । 'यो द्विती- यस्यां तृतीयस्यां पृथिव्याम्' इत्यत्र यथा पृथिवीशब्दः । भूम्यन्तरिक्ष- स्वर्गां स्त्रीन् लोकान् आदित्याः धारयन् वृष्टिप्रदानादिना धारयन्ति । वेदस्वरूप-विमर्शः २२१ उत अपि च द्यून दीप्तान् तत उपरितानान् महरादिकानपि त्रीन् लोका धारयन्ति । यद्वा-दीप्तान् अग्नि वायुं सूर्यंञ्च धारयन्ति । अपि च - एषामादित्यानां विदथे यज्ञे अन्तः मध्ये त्रीणी व्रता सवनत्रयनिष्पाद्यानि त्रीणि कर्माणि सन्ति । यद्वा - एषां लोकानामन्तर्मध्ये विदथे यज्ञे निमित्त- भूते सति एषामादित्यानां त्रीणि कर्माणि रसादान-धारण-विसर्जन- लक्षणानि सन्ति । उत्तरोऽर्धर्चः प्रत्यक्षकृतः । हे आदित्याः ऋतेन सत्येन यज्ञेन वा महि महत् प्रभूतं वः युष्माकं महित्वं महत्त्वं यन्महाभाग्यं हे अर्यमन् वरुण मित्र तन्महाभाग्यं चारु शोभनम्, सर्वोत्कृष्ट- मित्यर्थः। यदप्युक्तम्- "आकृष्णेन रजसा' इत्यत्रापि रजसो लोकस्य कथं कृष्णत्वमिति शङ्का 'सूर्योदयात् पूर्वं लोकः कृष्ण एव भवती'ति तेन समाहिता । सूर्यमण्डलस्य कृष्णत्वं तु न तद्बुद्धावुपारूढम् । तस्मिन्काले एवंविधानां विज्ञानानामत्यन्ताभाव एवात्रापि निदानम् । न खलु अश्रुतादृष्टचरेऽर्थे बुद्धिः प्रसरति" इति । तदप्युक्तोपालम्भनम्; मन्त्रेणानेन सवितुः कृष्णवर्णात्वानुक्तेः । अमुकेन ग्रामेण गन्तव्यमिति यथा ग्रामस्य मार्गरूपेण निर्देशस्तथैवा- त्रापि रजसा लोकेन वर्तमानेति मार्गनिर्देशः । तस्य चान्तरिक्षलोकस्य न स्वाभाविकं कृष्णत्वमिति युक्तमेव । सूर्योदयात् प्राक् तस्य कृष्णत्व- प्रतीतिः । श्रुतिषु त्वादित्यस्य अनेकानि रूपाणि वर्