वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 131, कुल 237 में से
संदर्भ में पढ़ेंसहज आत्मा तत्राप्तेस्तैस्तस्य विनियोगात् । येनाहङ्कारेनेन्द्रियरूपतया- परिणतेन कारणभूतेन क्षेत्रज्ञः प्रतिजन्म सुखं दुःखञ्चानुभवति । अत एव पैङ्गीरहस्योपनिषदि सर्व्वक्षेत्रज्ञावेव द्वौ सखायौ सुपर्णावुक्तौ । तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ अत्र तौ द्वौ महत् क्षेत्रज्ञौ पृथिव्यादिपञ्चभूतसंपृक्तौ उच्चावचेषु भूतेषु स्थितं तं सर्वलोकवेदस्मृतिपुराणादिप्रसिद्धतया तमिति निर्दिष्टं परमात्मानं व्याप्याश्रित्य तिष्ठतः तस्य परमात्मनः शरीरात् स्वरूपात् असंख्या मूर्तयो 'जीवरूपा क्षेत्रज्ञाश्चेनोक्ताः लिङ्गशरीरावाच्छिन्ना वेदान्तोक्तप्रकारेणाग्नेरिव विस्फुलिङ्गा निःसरन्ति या उच्चावचानि चेष्टयन्ति । एतेन शान्तात्मादि भेदेनाष्टादशात्मप्रभेदवर्णनमपि निरर्थकमेव । [L1