वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 161, कुल 237 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the text from the image:
Left Page
२६६ वेदप्रामा ण्य-विमर्शः इति मया प्राक्तनान् सन्दर्भान् यथावन्निभाल्य स्वयञ्च युक्तिमुक्ता आकल्य्य प्रयत्नोऽयमारब्धः । सोऽयं प्रस्तूयते । यद्यपि सजातीयविजातीयस्वगतभेदशून्यमपरिच्छिन्नमनन्तमपारं सर्वव्यवहारातीतमनाद्यनन्तं ब्रह्म व परमं तत्त्वम् सर्वाप्रणिपरप्रेमास्पदं सर्वात्मभूतं, तथाप्यनधिगतं सत्तदकिञ्चित्करमेव । 'नैनमविदितो देवो भुनक्ती' ति श्रुतेः । तत एवाचिन्त्यानिर्वाच्ययाऽघटितघटनापटीयस्या स्वशक्त्यैव स्वाधिगमाय स्वयमेव तद्वाच्यवाचक लक्ष्यलक्षकाद्यात्मना सप्रपञ्चमिवापद्यते । तत्रापि वाच्यलक्ष्यसदानन्दापेक्षयापि संविदानन्दा- त्मकमोमित्यभिधानमेवातिशेते, प्रकाश्यविषयापेक्षया प्रकाशकविषयि- महात्म्यातिशयस्य सर्वजनीनत्वात् । अचिन्त्यानन्तसच्चिदानन्दसुधा- महाम्भोधावभिधानाभिधेयात्मकप्रपञ्चोत्पादनानुकूलशक्त्यवच्छिन्नब्रह्म- विवर्त्तभूत एवाभिधानाभिधेयात्मकः प्रपञ्चोऽपि तेनैव तदभिन्नाभि- ज्ञस्य तदभिन्नत्वनियमात् अभिधानात्मकप्रपञ्चोत्पत्त्यनुकूलशक्त्यवच्छि- न्नसदानन्दविवर्त्तभूतानामभिधेयानाञ्चाभेद एव पर्य्यवस्यति । तत्रापि पादविभूतिगतमायाशक्त्या तदन्तर्गताभिधानाभिधेयभेदविजृम्भणेन जीवब्रह्मणोरिवाभेदतिरोधानम् । तेनैवाग्निमोदकाद्युच्चारणेनापि न मुख दाहपाटनपूरणादिकम् । त्रिपादविभूतौ त्वभेद एव जागर्ति । तत एव 'ओमितीदं सर्वं' 'ब्रह्मैवेदं सर्वं' मित्युपास्यते प्रतिपद्यते च समाहितैः पारहग्श्वभिः । सर्वत्र वाच्यप्रपञ्चापेक्षया वाचकस्य शब्दस्य श्रेष्ठयम् प्राकृतापभ्रंशमयशब्दापेक्षया च तत्प्रकृतिभूतसाधुसंस्कृतशब्दानां कोऽपि बिलक्षणो माहात्म्यतिशयः, येषामधिकारिकत्तु र्कोच्चारणेनापि पुण्यजनिः । तत्रापि शब्दसामान्यापेक्षयापि दोषबाधविधुरस्य शब्दविशे- षस्य कोऽपि माहात्म्यातिशयः सुख्यात एव । तदभ्यासेन वाचां क्रिया- फलाश्रयत्वं सम्पद्यते । लौकिकानामाृषीणां वागर्थमनुधावति विशिष्टानां तादृशानान्तु वाचमर्थोऽनुधावति । तेनैव कस्यचित् तपोघनस्य वाचैव नहुषोऽजगरत्वं, वाचैव च कस्यचित्सत्यव्रतस्य नन्दिनस्तेनैव देहेन देवत्वं सम्पन्नमिति पौराणिकाः ।' 'नास्ति सत्यसमं तपः'
Right Page
वेदप्रामाण्य-विमर्शः २६७ 'अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम् । अश्वमेधसहस्राच्च सत्यमेकं विशिष्यते ॥' इति तन्माहात्म्योक्तिः सुस्फुटैव । मृषावादिनामपि सत्योक्तिराद्रियते, किमुत सत्यवादिनां तथोक्तयः; सत्यव्रतानामृषीणां सुसिद्धानामृतसत्य- निष्ठानां देवानां देवदेवानामीश्वरस्य चोक्तयो दोषबाधवैधुर्यतारतम्ये- नोत्तरोत्तरं विशिष्यन्ते । तदपेक्षयाऽपि स्वप्रकाशपरब्रह्मानिःश्वसित- प्रायाणां पुरुषभावबुद्धिप्रयत्तनिरपेक्षाणामपास्तसमस्तपुन्दोषशङ्काकलङ्कप- ङ्कानां तदीयोनित्यानन्तज्ञानानुविद्धाकृत्रिम नित्यानन्तापौरुषेयशब्दराश्यात्म- कमन्त्रब्राह्मणात्मकानां वेदानां सर्वातिशायी माहात्म्यातिशयस्तु सर्वत्र जागर्तिंतमाम् । येषामनुग्रहादेव धर्मब्रह्मादयोऽतीन्द्रिया अपि पदार्थाः करतलामलकायन्ते । तन एव स्वात्मावबोधनाय करुणावरुणालयस्या- कारणकरुणस्य सर्वेश्वरस्यैव वेदात्मना चिशिष्यावतरणं मन्यन्ते वैदिकाः । 'वेदो नारायणः साक्षात् स्वयम्भूदिति शुश्रुम ।' 'वेदस्य चेश्वरात्मत्वात्तत्र मुह्यन्ति सूरयः' इत्यादि व्यासोक्तेः । तन्वागमपुराणन्यायसांख्ययोगमीमांसाधर्मशास्त्राज्ञ्जोपवृंहितविविधा - नवद्यविद्योद्गमस्थानभूतानां वेदानां सर्वार्थप्रद्योतित्वं निरुपचरितमेव । 'वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे' 'शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्' 'शास्त्रयोनित्वादि' ति रीत्या विश्वस्रष्टृतत्सृष्टिप्रकाशकत्वेन वेदानामनितरसाधारणम् माहात्म्यम् । 'मन्त्रब्राह्मणयोर्वेदनामधेय' मित्यापस्तम्बादभिस्तत्स्वरूपाव- बोधकं लक्षणं विहितम् । अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरि गृहीतवाक्यत्वं वेदत्वमित्युद्यनाचार्येणापि तल्लक्षितम् । शब्दातिरिक्तं शब्दोपजीविप्रमाणातिरिक्तञ्च यत्प्रमाणं तज्जन्य- प्रमितिविषयानतिरिक्ताथंको यो यस्तदन्यत्वे सति आमुष्मिकसुखजनको- च्चारणकत्वे संति जन्यज्ञानाजन्यो यो प्रमाणशब्दस्तत्त्वं वेदत्वमिति च प्राचीनैस्तल्लक्षणमुक्तम् । अत्र व्यासादियाक्षुषादिप्रत्यक्षजन्ये दृष्टार्थके भारत्तायुर्वेदादिभागेऽतिव्याप्तिवारणाय प्रथमसत्यन्तम् । इत्थञ्च तदुभया- तिरिक्तं प्रमाणं चक्षुरादिरेव तज्जन्यप्रमितिविषयार्थकतया तयोर्नाति-