भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 164, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 164

Here is the complete, line-by-line transcription of the Sanskrit text from the image into clean Markdown Devanagari.

पृष्ठ ३०२ (Left Page)

३०२ वेदप्रामाण्य-विमर्शः बाधकस्तर्कः । न च निलीनस्यैव प्रमाणस्यार्थव्यवहारजनकत्वोपपत्त्या नानवस्थेति वाच्यम् । तथात्वनिश्चायकप्रमाणाfieldनुदये तदस्तित्वस्यैव निश्चेतुमशक्यत्वात् । ननु ज्ञानस्य स्वतः स्फुरणं भवतु, तत्प्रामाण्यं तद्गतगुणत्वादिबदन्यत एवावगम्यतामिति चेन्न । तस्यादित एव प्रमाण- त्वेनास्फुरणे तद्विषये निःशङ्कप्रवृत्त्यनुपपत्तेः । नहि ज्ञानमात्रेण प्रवृत्तिः संभवति, मरुमरीचिकादौ सत्यपि 'विज्ञाने तदप्रामाण्यनिश्चये प्रवृत्त्य- दर्शनात् । न चाप्रामाण्यास्फुरणे प्रामाण्यप्रत्ययमन्तराऽपि ज्ञानमात्रात्कुतो न प्रवृत्तिरिति वाच्यम् । प्रामाण्याप्रामाण्ययोरुभयोरस्फुरणे संशयात्प्रवृत्त्य- नुपपत्तेः । अस्ति चानभ्यासदशायां नववनस्थलीस्थितेषु फलितसह- कारादिषु तत्फलेप्सोर्निःशङ्कप्रवृत्तिः । पारलौकिकफलसाधनेषु निःशङ्क- प्रवृत्तिर्नैयायिकादिभिः प्रामाण्यनिश्चयपरतन्त्रैवोपैयते । न च कृष्यादौ संशयेऽपि प्रवृत्तिर्भवतीति वाच्यम्; तत्र निःशङ्कप्रवृत्तेरभावात् । तस्मात् प्रामाण्यनिश्चयार्थीनैव प्रवृत्तिरुपेतव्या, अन्यथा प्रामाण्यानिश्चयाद्वि- वृत्तिरपि सम्भवत्येव । तस्मात्पूर्वोक्तप्रवृत्तिसिद्धये स्वत एव प्रामाण्यं प्रमाणानामनिच्छताप्यङ्गीकार्यम् । अत एव 'फलेऽपि स्वतस्त्वमेव ज्ञेयाभिव्यक्तिलक्षणस्य फलस्य ज्ञानमात्रादेव सिद्धेः । न्याय्रकणिकायां वाचस्पतिमिश्रास्तु - "ननु बाधकारणदोषाभ्याम- प्रामाण्यज्ञानात् तद्भावमहापेक्षप्रामाण्यनिश्चयेन न स्वतः प्रामाण्यमिति चेन्न । एकहेतुत्वकल्पनायां कार्योत्पत्त्यावंक हेतुत्वकल्पनानुपपत्तेः । बाधस्य कारणदोषग्रहणस्य चाप्रामाण्यनिश्चयहे भावमात्रेण प्रामाण्योपहन्तृत्वेन तदभावे बोधमात्रादेव प्रामाण्योपपत्तौ न तदभावोऽपेक्षणोयः। स च सत्यामाशङ्कायाम्। सा च यादृशे विषये दृष्टचरी तादृशे एव न सर्वत्र । तस्मात्स्वत एव प्रमाणानां प्रामाण्यम्, वह्नेर्दाहनसामर्थ्यवत् । तदेव चोक्तम् भट्टपादैः- 'स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् ।' इत्यादिना ।


पृष्ठ ३०३ (Right Page)

वेदप्रामाण्य-विमर्शः ३०३ नन्वव्यभिचाराग्रहे ज्ञानमात्रादनाश्वासप्रसंग इति चेत् ; कोऽयम- नाश्वासो नाम ? संशयः, आहाविद् अज्ञानम् ? न चरमः बोधस्यैव जातत्वात् । न प्रथमः विशेषस्मृत्यपेक्षाविमर्श त्रिकारणं पञ्चकारणं वा संशयं रोचयन्ते 'समानानेकधर्मोपपत्तेर्विप्रतिपत्तो रुपलब्ध्यनुपलब्धिव्य- वस्थातश्च विशेषापेक्षो विमर्शः संशय' इति तद्विशेषाः। न चागृहीते विशेषे न स्मरणसंभवः, न वा संशयात्मैतद्ग्रहणं स्मृतिहेतुः, स्मृतौ सत्यां तदभावान्, तस्मिंश्च स्मृत्युपपत्तोरन्योन्याश्रयप्रसंगात् । संस्कारज- त्वेऽपि प्रसंगात्तदवस्थात् । अनादित्वाच्च गत्यन्तरसम्भवेऽनाश्रय- णात् । तस्माज्ञाव्यभिचारनिश्चयो ज्ञानस्य स्वार्थनिश्चयनिमित्तम्, तस्यो- त्पत्तौ तदपेक्षत्वात् । यत्स्वरूपोत्पत्तौ यदपेक्ष्यते, न तत्तस्य हेतुः, यथाऽनु- मेयविज्ञानं लिङ्गविज्ञानस्य । न चासिद्धताहेतुः, स्वार्थनिश्चयापेक्षम् तदव्यभिचारविज्ञानमिति कार्यात्यन्ताभावित्त्वे कारणत्वं व्याहृतम्; तद्वि- पक्षविरुद्धोपलब्ध्या वर्तमानं कारणत्वमपि व्यावर्तयति इति प्रतिबन्ध- सिद्धिः । अर्थप्रापणशक्तिरपि तस्यार्थप्रदर्शनान् नान्या । नहि ज्ञानमात्मीयहस्ते वस्तूपनयति, अपि तु तत्र प्रवर्त्तयति ज्ञातारम् । प्रवर्त्तनमपि तस्य न वस्तुतत्त्वोपदर्शनादन्यत् । अर्थस्य वस्तुतत्त्वमपि न स्वरूपादन्यत् । तच्चास्य रूपमनुभवः स्वभावत एवानुभवति न पुनरव्यभिचारायपेक्षते । तदिदमेवानुभवस्याऽर्थे स्वतः- प्रामाण्यम् । यदनुभूयमानाद्रूपात् अर्थस्यान्यथात्वं न तदनुभवत्यनुभवो रजत- भ्रमेण तदन्यत्वावग्रहणे रजतार्थिनस्तत्राप्रवृत्तेर्बाधकानुपपत्तेश्च । ततश्च ज्ञानान्तरादवसेयमन्यथात्वं तेन तत्रान्यदपेक्षत इति तदेवास्थ्य परतोऽप्रा- माण्यम् । यत्पुनरस्य तत्त्वावबोधरूपत्वं विज्ञानस्य तदपि तद्ग्राहिणः प्रत्ययान्तरन्मानसादानुमानिकाद्वावगम्यमानं स्वत इत्युच्यते, तत्स्वरूप- ग्राहिणः प्रत्ययात्प्रत्ययान्तरानपेक्षणात् । न चास्य बाधकाशङ्कायामप्रा- माण्यमाशङ्कनीयम्, बाधान तत्प्रहाङ्कानुपपत्तेः । नैयायिकाद्यस्तु - ज्ञानञ्च स्वविषयोचितव्यवहारप्रवर्तनेऽव्यभिचा- रितामपेक्षते । न हि विज्ञानं विज्ञानमित्येव व्यवहारं प्रवर्त्तयति, मिथ्या-