वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 166, कुल 237 में से
संदर्भ में पढ़ेंवेदस्वरूप-विमर्शः
मसत्यमपि तज्ज्ञानमात्रादुत्पादनाज्जागरेऽनुवृत्तेरविरोधात् । अन्यथा कामिनीवस्तुसाध्याधरपल्लवादितल्लक्षतादिवद्द्रव्यावृत्तिस्रग्ज्ञानमदोष इति चेन्न । प्रकृतेऽर्थक्रियानिर्भासस्य ज्ञानस्याव्यभिचारित्वाग्रहेणार्थ- क्रियाया अनिश्चयेन प्रवर्त्तकस्य ज्ञानस्यार्थक्रियासमर्थवस्तुपरिमापण- लक्षणप्रामाण्यानिश्चये स्वप्नज्ञानसाम्यात् । न चार्थक्रियानिर्भासं ज्ञानं स्वतःप्रमाणमर्थक्रियानिश्चयात्मकत्वात् । न च स्वप्नादौ प्रसङ्गः, तत्रावस्थान्तरे पुरुषान्तरे कालान्तरे वा बाधकोत्पादादप्रामाण्यादिति तत्प्रवर्त्तकेष्वपि ज्ञानेषु समत्वादन्यत्राभिनिवेशात् । अव्यभिचारित्वं नाम ज्ञानस्यार्थेन सह नियतः सम्बन्धः । न च तदर्थमगृह्णानैते शक्याध्य- वसानम् । न खल्वगृहीतवह्निः धूमस्य तद्व्यभिचारमवधारयितुमर्हति । न खल्वप्रामाण्येन गृ