वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 17, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the text from the provided image into Devanagari Markdown:
[वाम पृष्ठ / Left page]
८ \hspace{70pt} वेदस्वरूप-विमर्शः \hspace{20pt} यदुक्तम् — "चिकित्सादिप्रयोगान् कृष्णसारगोलकस्य चक्षुष्ट्वम्" इति। तदप्यकिञ्चित्करम् ; तस्याधेयमात्रोपकारकत्वात् । \hspace{30pt} "चिकित्सादिप्रयोगस्तु गोलके यः प्रवर्तते । \hspace{30pt} सोऽयमाधारसंस्कारः आधेयस्योपकारकः ॥" \hspace{20pt} इति । कृष्णसारगोलकस्य चक्षुष्ट्वे तस्य विषयैः संसर्गाभावान्न विषयप्रत्यक्षं स्यात् । तस्मात्तैजसस्य चक्षुषोऽधिष्ठानमेव कृष्णसारगोलकः स्वोपघाता- नुपघाताभ्यां चक्षुषोऽप्युपघातानुपघातौ जनयति । \hspace{20pt} इन्द्रियाणां स्वविषयग्रहणं भूतप्रकृतित्वे सति निर्वहति नान्यथा । भौतिकानीन्द्रियाणि स्वस्वविषयमधिगन्तुमुत्सहन्ते । गोलकशक्तिरिन्द्रि- याणीति पक्षो मीमांसकानाम् । ननु न प्राप्यकारित्वं सर्वेन्द्रियाणाम्, रसनस्पर्शनयोरेव तद्दर्शनात् । चक्षुःश्रोत्रे तु दूरदेशस्थरूपशब्दग्राहके कथं प्राप्यकारिणी स्याताम् ? घ्राणं तु त्रिपुटिकानिकटनिहितपदार्थ गन्धमपि गृह्णाति, दूरतोऽपि प्रवहदनिलसमानतमालतोमल्लिका- यूथिकादिसौरभमुपलभते, निकटनिहितद्रव्येणापि न सन्निकर्ष इत्यप्राप्य- कारित्वमेव तस्य । तस्माच्छक्तिविशेषणमधिष्ठानमेवेन्द्रियम्, चन्द्रार्क- ग्राहिणि चक्षुषि नतरां प्राप्यकारित्वमिति चेन्न । कारकत्वेन प्राप्यकारि- त्वस्यैबौचित्यात् कारकञ्चाप्राप्यकारि चेति चित्रम् । अप्राप्यकारित्वे च शक्तेर्विशेषात् कुड्यादिव्यवहितमपि वस्तु चक्षुर्गृह्णीयात् । \hspace{20pt} यदुक्तम्— "तत्र कार्यानुपलम्भात्र शक्तिः कल्प्यते" इति । तदपि न क्षोदक्षमम् ; तेजसो द्रव्यत्वाद्व्यवधानानुगुणमेव कार्यकरत्वम् अमूर्तायास्तु शक्तेर्नव्यवधानमबाधकं भवेदिति तेज एवेन्द्रियं कल्पनीयम्, न शक्तिः शक्तिमदधिष्ठानं वा । श्रोत्रस्यापि प्राप्यकारिता वक्ष्यते । घ्राणस्यापि समीरणान्दोलितमल्लिकामानत्यादिपुष्पप्रसृतत्रसरेणुनिकरा- धिकरणगन्धग्रहणात् प्राप्यकारितैव । न च त्रसरेणुविसर्पणाद् द्रव्यक्षयः, पृथिव्यापूरकत्वेन त्रसरेणुभूयस्त्वेन च तददोषात् । अत एवाशुचिद्रव्या- घ्राणेऽपि प्रायश्चित्तान्नानम् । चक्षुषस्तेजःप्रसरणात् प्राप्यकारित्वं, श्रोत्र- स्यापि शब्दाभिव्यञ्जकध्वनेरुत्पत्तिदेशे गमनात् तादृशस्य ध्वनेः श्रोत्रदेशे
[दक्षिण पृष्ठ / Right page]
\hspace{70pt} वेदस्वरूप-विमर्शः \hspace{70pt} ६ आगमनाद्वा सन्निकर्षस्य सत्त्वान्न प्राप्यकारित्वभङ्गः । त्वग्-रसनयोस्तु प्राप्यकारित्वे न विवादः । तस्मात् प्राप्यकारीणि इन्द्रियाणीति । \hspace{20pt} यदुक्तम् — "अयस्कान्ताञ्जनतिलकमन्त्रादिवदप्राप्तस्यैव ग्राहकं चक्षुः। तथात्वेऽपि न सकलार्थभासकत्वप्रसङ्गः, योग्यदेशापेक्षणात् । यथा अयस्कान्तोऽयसोऽप्राप्तस्याकर्षणे प्रवर्तमानोऽपि न सर्वस्यायसः तथा- विधस्याकर्षणे समर्थः, अपि तु योग्यदेशस्थस्यैव, अञ्जनतिलकमन्त्रादि- र्वा अप्राप्तस्य रुत्यादेराकर्षकः सन् न सर्वस्याकर्पको दृष्टः, नियतस्यैव स्त्र्यादेस्तेनाकर्षणोपलम्भात्, तथैव चक्षूरश्मयो लोकान्तरं गत्वा किमिति रूपं न प्रकाशयन्ति, चक्षुषा संयुक्तसमवायात् रूपमिव गन्धादिकमपि किमिति न प्रकाशयति, तत्रापि तस्याविशेषात् इति चोद्ये योग्यतैव शरणम्" इति । \hspace{20pt} तन्न ; तथात्वे योग्यताविशेषादेव एकेनेन्द्रियेणैव सर्वप्रकाशसिद्धौ चक्षुराद्यभ्युपगमस्य वैयर्थ्यापातात् । त्वच एव योग्यताविशेषात् तत्त एव तत्तदर्थोपलम्भसंभवात् । यदि तु योग्यताया अपि निर्धारणाथ कार्यकारणभावनिर्धारणमावश्यकम्, तदा प्रकृतेऽपि स निर्धारणीयः । यथाऽयसो नियतदेशप्राप्तिर्वक्तव्या । यदि चक्षुःप्रदेशे पर्वतादिविषयस्य गमनमनुपलब्धेतसा नाभ्युपेयते, तदा चक्षुष एव विषयप्रदेशगमन- मभ्युपेयताम्, अयस्कान्ततिलकादीनां संयोगसम्बन्धानपेक्षत्वेऽपि देश- विशेषप्राप्त्यपेक्षाया अनिवार्यत्वात् । अन्यथा दूरस्थवस्तुदर्शनाय पुरुषस्य गमनं भवन्मतेऽपि नोपपद्यते । बिडालादिचक्षूरश्मिगमनस्य प्रत्यक्षसिद्धत्वाच्च प्राप्यकारित्वम् । \hspace{20pt} किञ्च — इन्द्रियत्वाविशेषेऽपि त्वगादिरपि कुतो नायस्कान्तवत् प्राप्य- कारी, योग्यतायाः सर्वत्राप्यनपायात् । तथाऽदर्शनान्न तत्र तथेति चेत्, प्रकृतेऽपि तथाऽदर्शनस्य तुल्यत्वान, गोलकस्य विषयदेशाप्राप्तिदर्शनेऽपि रश्मीनां तदप्राप्तिदर्शनस्य वर्णयितुमशक्यत्वात् । बिडालनेत्ररश्मीनां प्राप्तिदर्शनाच्च । \hspace{20pt} किञ्च — नियतदेशप्राप्त्यपेक्षामे प्रभावशक्त्याद्यात्मना अयस्कान्तादीना- मपि लोहसंसर्गो भवत्येव । सर्वथाऽसंसर्गेऽसंसृष्टत्वाविशेषात् दूरस्थाना-