भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 17, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 17

Here is the complete, line-by-line transcription of the text from the provided image into Devanagari Markdown:

[वाम पृष्ठ / Left page]

८ \hspace{70pt} वेदस्वरूप-विमर्शः \hspace{20pt} यदुक्तम् — "चिकित्सादिप्रयोगान् कृष्णसारगोलकस्य चक्षुष्ट्वम्" इति। तदप्यकिञ्चित्करम् ; तस्याधेयमात्रोपकारकत्वात् । \hspace{30pt} "चिकित्सादिप्रयोगस्तु गोलके यः प्रवर्तते । \hspace{30pt} सोऽयमाधारसंस्कारः आधेयस्योपकारकः ॥" \hspace{20pt} इति । कृष्णसारगोलकस्य चक्षुष्ट्वे तस्य विषयैः संसर्गाभावान्न विषयप्रत्यक्षं स्यात् । तस्मात्तैजसस्य चक्षुषोऽधिष्ठानमेव कृष्णसारगोलकः स्वोपघाता- नुपघाताभ्यां चक्षुषोऽप्युपघातानुपघातौ जनयति । \hspace{20pt} इन्द्रियाणां स्वविषयग्रहणं भूतप्रकृतित्वे सति निर्वहति नान्यथा । भौतिकानीन्द्रियाणि स्वस्वविषयमधिगन्तुमुत्सहन्ते । गोलकशक्तिरिन्द्रि- याणीति पक्षो मीमांसकानाम् । ननु न प्राप्यकारित्वं सर्वेन्द्रियाणाम्, रसनस्पर्शनयोरेव तद्दर्शनात् । चक्षुःश्रोत्रे तु दूरदेशस्थरूपशब्दग्राहके कथं प्राप्यकारिणी स्याताम् ? घ्राणं तु त्रिपुटिकानिकटनिहितपदार्थ गन्धमपि गृह्णाति, दूरतोऽपि प्रवहदनिलसमानतमालतोमल्लिका- यूथिकादिसौरभमुपलभते, निकटनिहितद्रव्येणापि न सन्निकर्ष इत्यप्राप्य- कारित्वमेव तस्य । तस्माच्छक्तिविशेषणमधिष्ठानमेवेन्द्रियम्, चन्द्रार्क- ग्राहिणि चक्षुषि नतरां प्राप्यकारित्वमिति चेन्न । कारकत्वेन प्राप्यकारि- त्वस्यैबौचित्यात् कारकञ्चाप्राप्यकारि चेति चित्रम् । अप्राप्यकारित्वे च शक्तेर्विशेषात् कुड्यादिव्यवहितमपि वस्तु चक्षुर्गृह्णीयात् । \hspace{20pt} यदुक्तम्— "तत्र कार्यानुपलम्भात्र शक्तिः कल्प्यते" इति । तदपि न क्षोदक्षमम् ; तेजसो द्रव्यत्वाद्व्यवधानानुगुणमेव कार्यकरत्वम् अमूर्तायास्तु शक्तेर्नव्यवधानमबाधकं भवेदिति तेज एवेन्द्रियं कल्पनीयम्, न शक्तिः शक्तिमदधिष्ठानं वा । श्रोत्रस्यापि प्राप्यकारिता वक्ष्यते । घ्राणस्यापि समीरणान्दोलितमल्लिकामानत्यादिपुष्पप्रसृतत्रसरेणुनिकरा- धिकरणगन्धग्रहणात् प्राप्यकारितैव । न च त्रसरेणुविसर्पणाद् द्रव्यक्षयः, पृथिव्यापूरकत्वेन त्रसरेणुभूयस्त्वेन च तददोषात् । अत एवाशुचिद्रव्या- घ्राणेऽपि प्रायश्चित्तान्नानम् । चक्षुषस्तेजःप्रसरणात् प्राप्यकारित्वं, श्रोत्र- स्यापि शब्दाभिव्यञ्जकध्वनेरुत्पत्तिदेशे गमनात् तादृशस्य ध्वनेः श्रोत्रदेशे


[दक्षिण पृष्ठ / Right page]

\hspace{70pt} वेदस्वरूप-विमर्शः \hspace{70pt} ६ आगमनाद्वा सन्निकर्षस्य सत्त्वान्न प्राप्यकारित्वभङ्गः । त्वग्-रसनयोस्तु प्राप्यकारित्वे न विवादः । तस्मात् प्राप्यकारीणि इन्द्रियाणीति । \hspace{20pt} यदुक्तम् — "अयस्कान्ताञ्जनतिलकमन्त्रादिवदप्राप्तस्यैव ग्राहकं चक्षुः। तथात्वेऽपि न सकलार्थभासकत्वप्रसङ्गः, योग्यदेशापेक्षणात् । यथा अयस्कान्तोऽयसोऽप्राप्तस्याकर्षणे प्रवर्तमानोऽपि न सर्वस्यायसः तथा- विधस्याकर्षणे समर्थः, अपि तु योग्यदेशस्थस्यैव, अञ्जनतिलकमन्त्रादि- र्वा अप्राप्तस्य रुत्यादेराकर्षकः सन् न सर्वस्याकर्पको दृष्टः, नियतस्यैव स्त्र्यादेस्तेनाकर्षणोपलम्भात्, तथैव चक्षूरश्मयो लोकान्तरं गत्वा किमिति रूपं न प्रकाशयन्ति, चक्षुषा संयुक्तसमवायात् रूपमिव गन्धादिकमपि किमिति न प्रकाशयति, तत्रापि तस्याविशेषात् इति चोद्ये योग्यतैव शरणम्" इति । \hspace{20pt} तन्न ; तथात्वे योग्यताविशेषादेव एकेनेन्द्रियेणैव सर्वप्रकाशसिद्धौ चक्षुराद्यभ्युपगमस्य वैयर्थ्यापातात् । त्वच एव योग्यताविशेषात् तत्त एव तत्तदर्थोपलम्भसंभवात् । यदि तु योग्यताया अपि निर्धारणाथ कार्यकारणभावनिर्धारणमावश्यकम्, तदा प्रकृतेऽपि स निर्धारणीयः । यथाऽयसो नियतदेशप्राप्तिर्वक्तव्या । यदि चक्षुःप्रदेशे पर्वतादिविषयस्य गमनमनुपलब्धेतसा नाभ्युपेयते, तदा चक्षुष एव विषयप्रदेशगमन- मभ्युपेयताम्, अयस्कान्ततिलकादीनां संयोगसम्बन्धानपेक्षत्वेऽपि देश- विशेषप्राप्त्यपेक्षाया अनिवार्यत्वात् । अन्यथा दूरस्थवस्तुदर्शनाय पुरुषस्य गमनं भवन्मतेऽपि नोपपद्यते । बिडालादिचक्षूरश्मिगमनस्य प्रत्यक्षसिद्धत्वाच्च प्राप्यकारित्वम् । \hspace{20pt} किञ्च — इन्द्रियत्वाविशेषेऽपि त्वगादिरपि कुतो नायस्कान्तवत् प्राप्य- कारी, योग्यतायाः सर्वत्राप्यनपायात् । तथाऽदर्शनान्न तत्र तथेति चेत्, प्रकृतेऽपि तथाऽदर्शनस्य तुल्यत्वान, गोलकस्य विषयदेशाप्राप्तिदर्शनेऽपि रश्मीनां तदप्राप्तिदर्शनस्य वर्णयितुमशक्यत्वात् । बिडालनेत्ररश्मीनां प्राप्तिदर्शनाच्च । \hspace{20pt} किञ्च — नियतदेशप्राप्त्यपेक्षामे प्रभावशक्त्याद्यात्मना अयस्कान्तादीना- मपि लोहसंसर्गो भवत्येव । सर्वथाऽसंसर्गेऽसंसृष्टत्वाविशेषात् दूरस्थाना-