भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 173, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 173

३२० वेदस्वरूप-विमर्शः हिततयाऽनुमानमपि न प्रवर्तते । अतो नानुमानादिभिरपि सर्वज्ञ- त्वसिद्धिः। लौकायतिकैस्तु—सर्वज्ञत्वकल्पनावदेव अपौरुषेयत्वकल्पनाऽपि निष्प्रमाणिकैवोच्यते । तेनैवोच्यते— "सर्वशो दृश्यते तावन्नेदानीमस्मदादिभिः । निराकरणवच्छक्त्या न चासीदिति कल्पना ॥” ‘अतीतः कालः सर्वज्ञशून्यः, कालत्वादद्यत्ववत् ।' न वाऽऽगमो बुद्धादिसर्वज्ञत्वसिद्धौ प्रमाणम् । सिद्धे सर्वज्ञे तदाग- मस्य प्रामाण्यम्, तत्प्रामाण्ये च सर्वज्ञत्वसिद्धिरित्यन्योन्याश्रयात् । पुरुषान्तरप्रणीतस्य तु मूलान्तरासम्भवात् न सर्वज्ञसद्भावे प्रामाण्यम् । यत्तूक्तम्— “नित्यागमगम्यः सर्वज्ञः" इति तन्न; तदभावात् । न च 'यः सर्वज्ञः स सर्ववित्' इति नित्यागमोऽस्त्येवेति