वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 188, कुल 237 में से
संदर्भ में पढ़ें३५० वेदस्वरूप-विमर्शः अत्र वाचस्पतिमिश्राः-तापत्रयपरीतान् प्रेत्यभावमहार्णवाज्जन्तू- नुद्धरिष्यामि ज्ञानधर्मोपदेशेन, न च ज्ञानक्रियाशक्त्यतिशयसम्प- त्तिमन्तरेण तदुपदेशः । न चैवमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं विना इत्यालोच्य सत्त्वप्रकर्षमुपादत्ते । अविद्यादिभिरपरामृष्टोऽप्या- त्मारूपेण शैलूष इव तत्तदभिमानोपि न भवति भ्रान्तः । नचैवमुद्दिधीर्षया भगवता सत्त्वमुपादेयम् । तदुपादाने च तदुद्दिधीर्षा चेदन्योन्याश्रय इति वाच्यम् । सृष्टिप्रलयप्रवाहस्यानादित्वेन तदनुपपत्तेः । नचेश्वरस्य सत्त्वप्रकर्षे न कस्यचित्प्रत्यक्षमनुमानं वास्ति, न चेश्वर- प्रत्यक्षप्रभवं शास्त्रमिति युक्तम् । कल्पयित्वापि स्वात्मैश्वर्यप्रकाशनाय तथोक्तिसंभवेनानाप्तवासंभवदिति वाच्यम्, मन्त्रायुर्वेदादिष्वीश्वर- प्रणीतेषु प्रवृत्तिसामर्थ्याव्यभिचारनिश्चयात् प्रामाण्यस्य सिद्धत्वेन तन्निर्मितस्य शास्त्रस्यानातिशङ्कनीयत्वात् । न चौषधिभेदानां तत्संयोग- विशेषाणां च मन्त्राणां तत्तदङ्गावापोद्वापेण सहस्रेणापि पुरुषायुषैर्लौकि- कैकमात्रव्यवहारी शक्तः कर्तुमन्वयव्यतिरेकौ । न चागमादन्वयव्यति- रेकौ ताभ्यां चागमस्तयोरनादित्वादिति प्रतिपादयितुं युक्तम् । महाप्रलये तत्सम्प्रदायविच्छेदात् । न च प्रलयसत्त्वे प्रमाणाभावः । महदहङ्कारा- दिरूपपरिणामेन प्रधानेनापि कदाचित्सदृशपरिणामेनापि भाव्यम् । सदृशपरिणाम एव साम्यावस्था । स च महाप्रलयः । तस्मान्मन्त्रायुर्वेदव- द्वेदराशिरपि परमेश्वरनिर्मितः प्रमाणभूत एव । सृष्टिप्रलयौ चागमानुमा- नाभ्यां सिद्धयतः । सर्वज्ञपूर्वकत्वे सति सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेद- प्रामाण्यवद्वेदप्रामाण्यम् । परमेश्वरीय नित्यज्ञानमूलत्वेन प्रवाहरूपेण नित्यान्येव वेदवाक्यानि । यदि न नित्यानि कथं प्रमाणानि ? पुरुषनिर्मितत्वे तु पुरुषाणां चित्राभिसन्धित्वेन भ्रमशङ्का न शक्याऽपाकर्तुम् । तस्माद- पौरुषेयत्वमेव पुरुषाश्रयान्दोषानपाकुर्वद्वेदे तत्प्रामाण्यव्यवस्थापकम् । तदेतत्पातञ्जलमतमपि मीमांसकैः प्रतिक्षिप्यते । परमेश्वरमूलकत्वेन शास्त्रप्रामाण्यं शास्त्रप्रामाण्येन चेश्वरसिद्धिरित्यन्योन्याश्रयान्न तदुभय- सिद्धिः । न चानादित्वेन तच्छक्यसमर्थनम् । बीजाङ्कुरादिवत्तस्य
वेदप्रामाण्य-विमर्शः ३५१ प्रमाणान्तरासिद्धत्वात् । न चानुमानेन तत्सिद्धिनैयायिकानुमाननिरा- करणयुक्तिभिरेवान्यानुमानानामपि निराकृतत्वात् । यदुच्यते सातिशयानां काष्ठाप्राप्तिः परिमाणानामुपलब्धा । यथा कुवलामलकबिल्वेषु महत्त्वस्य सातिशयस्याकाशे काष्ठाप्राप्तिः । साति- शयञ्चेदं विज्ञानमुपलभ्यते तत्तदेकदिग्बहुविषयादित्थं व्याप्त्या । तदिदमपि क्वचित्काष्ठाप्राप्तं युक्तं, सर्वज्ञतैव काष्ठाप्राप्तिः । तदपि न; विकल्पासह- त्वात् । तथाहि—यदि यतः परं नास्ति सा काष्ठा भवतु तत्प्राप्तिर्न तावत् सार्वज्ञ्यप्राप्तिः । भूयिष्ठविषयत्वेन तु न सार्वज्ञ्यम् । पार्थिवस्य गोलकस्य पार्थिवान्तरापेक्षं बहुतराकाशावकाशाव्यापित्वेपि न सर्वव्यापिता । अथ यतः परं न सम्भाव्यते सा काष्ठेति तन्न; कार्यद्रव्यैर्व्यभिचारात् । नहि सातिशया अपि घटादयः परा संभावनीयातिशायिनः, अन्यानवकाश- प्रसङ्गात् । एकेन सर्वव्याप्तेः । न च गुणत्वेनेति विशेषणान्न व्यभिचार इति वाच्यम्, तद्गतानां गरिमादीनां तदवस्थाऽसम्भवात् सर्वगुरुत्व- वद्भिरेककार्यारम्भाभावान् । ऐश्वर्यफलस्य धर्मस्य न सा काष्ठा तदपेक्षयैश्वर्यादिजननाद्धर्मस्यापि । ईश्वरैश्वर्यस्य धर्मफलत्वाभावात् । क्लेशकर्मविपाकाशयापरामर्शादने- कैश्वर्यप्रसङ्गादैश्वर्यव्याघातात् । ननु चेश्वरं विना कर्मणां फलदातृत्वञ्जगत्कर्तृत्वं वा नोपपद्यत इति तदर्थमीश्वरकल्पनमावश्यकमिति चेन्न, मीमांसकैः कर्मभिरेव तत्साधितत्वात् । तथाहि-उपदेशो विधिः, नाज्ञादिः, उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः । यथाऽऽरोग्यकामो जीर्णे भुञ्जीत, एष सुपन्था गच्छत्वनेन भवान्, आज्ञादिस्तु नियोक्तृप्रयोजनस्तत्राभिप्रायस्य प्रवर्तकत्वात्, अपौरुषेये वेदे च तदसम्भवात् । तदेवमुपदेशस्य नियो- ज्यानुष्ठात्रपेक्षितप्रयोजनानुकूलव्यापारगोचरत्वमेव । तथा च—“स्वर्ग- कामो यजेत” इत्यादी यागादयो नियोज्यापेक्षितस्वर्गादिसाधनतया गम्यन्ते । “स्वर्गकामो यजेत" इत्यादिश्रुतिभिः कर्मफलसम्बन्धः श्रूयते, न च