भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 188, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 188

३५० वेदस्वरूप-विमर्शः अत्र वाचस्पतिमिश्राः-तापत्रयपरीतान् प्रेत्यभावमहार्णवाज्जन्तू- नुद्धरिष्यामि ज्ञानधर्मोपदेशेन, न च ज्ञानक्रियाशक्त्यतिशयसम्प- त्तिमन्तरेण तदुपदेशः । न चैवमपहतरजस्तमोमलविशुद्धसत्त्वोपादानं विना इत्यालोच्य सत्त्वप्रकर्षमुपादत्ते । अविद्यादिभिरपरामृष्टोऽप्या- त्मारूपेण शैलूष इव तत्तदभिमानोपि न भवति भ्रान्तः । नचैवमुद्दिधीर्षया भगवता सत्त्वमुपादेयम् । तदुपादाने च तदुद्दिधीर्षा चेदन्योन्याश्रय इति वाच्यम् । सृष्टिप्रलयप्रवाहस्यानादित्वेन तदनुपपत्तेः । नचेश्वरस्य सत्त्वप्रकर्षे न कस्यचित्प्रत्यक्षमनुमानं वास्ति, न चेश्वर- प्रत्यक्षप्रभवं शास्त्रमिति युक्तम् । कल्पयित्वापि स्वात्मैश्वर्यप्रकाशनाय तथोक्तिसंभवेनानाप्तवासंभवदिति वाच्यम्, मन्त्रायुर्वेदादिष्वीश्वर- प्रणीतेषु प्रवृत्तिसामर्थ्याव्यभिचारनिश्चयात् प्रामाण्यस्य सिद्धत्वेन तन्निर्मितस्य शास्त्रस्यानातिशङ्कनीयत्वात् । न चौषधिभेदानां तत्संयोग- विशेषाणां च मन्त्राणां तत्तदङ्गावापोद्वापेण सहस्रेणापि पुरुषायुषैर्लौकि- कैकमात्रव्यवहारी शक्तः कर्तुमन्वयव्यतिरेकौ । न चागमादन्वयव्यति- रेकौ ताभ्यां चागमस्तयोरनादित्वादिति प्रतिपादयितुं युक्तम् । महाप्रलये तत्सम्प्रदायविच्छेदात् । न च प्रलयसत्त्वे प्रमाणाभावः । महदहङ्कारा- दिरूपपरिणामेन प्रधानेनापि कदाचित्सदृशपरिणामेनापि भाव्यम् । सदृशपरिणाम एव साम्यावस्था । स च महाप्रलयः । तस्मान्मन्त्रायुर्वेदव- द्वेदराशिरपि परमेश्वरनिर्मितः प्रमाणभूत एव । सृष्टिप्रलयौ चागमानुमा- नाभ्यां सिद्धयतः । सर्वज्ञपूर्वकत्वे सति सिद्धमाप्तोक्तत्वेन मन्त्रायुर्वेद- प्रामाण्यवद्वेदप्रामाण्यम् । परमेश्वरीय नित्यज्ञानमूलत्वेन प्रवाहरूपेण नित्यान्येव वेदवाक्यानि । यदि न नित्यानि कथं प्रमाणानि ? पुरुषनिर्मितत्वे तु पुरुषाणां चित्राभिसन्धित्वेन भ्रमशङ्का न शक्याऽपाकर्तुम् । तस्माद- पौरुषेयत्वमेव पुरुषाश्रयान्दोषानपाकुर्वद्वेदे तत्प्रामाण्यव्यवस्थापकम् । तदेतत्पातञ्जलमतमपि मीमांसकैः प्रतिक्षिप्यते । परमेश्वरमूलकत्वेन शास्त्रप्रामाण्यं शास्त्रप्रामाण्येन चेश्वरसिद्धिरित्यन्योन्याश्रयान्न तदुभय- सिद्धिः । न चानादित्वेन तच्छक्यसमर्थनम् । बीजाङ्कुरादिवत्तस्य


वेदप्रामाण्य-विमर्शः ३५१ प्रमाणान्तरासिद्धत्वात् । न चानुमानेन तत्सिद्धिनैयायिकानुमाननिरा- करणयुक्तिभिरेवान्यानुमानानामपि निराकृतत्वात् । यदुच्यते सातिशयानां काष्ठाप्राप्तिः परिमाणानामुपलब्धा । यथा कुवलामलकबिल्वेषु महत्त्वस्य सातिशयस्याकाशे काष्ठाप्राप्तिः । साति- शयञ्चेदं विज्ञानमुपलभ्यते तत्तदेकदिग्बहुविषयादित्थं व्याप्त्या । तदिदमपि क्वचित्काष्ठाप्राप्तं युक्तं, सर्वज्ञतैव काष्ठाप्राप्तिः । तदपि न; विकल्पासह- त्वात् । तथाहि—यदि यतः परं नास्ति सा काष्ठा भवतु तत्प्राप्तिर्न तावत् सार्वज्ञ्यप्राप्तिः । भूयिष्ठविषयत्वेन तु न सार्वज्ञ्यम् । पार्थिवस्य गोलकस्य पार्थिवान्तरापेक्षं बहुतराकाशावकाशाव्यापित्वेपि न सर्वव्यापिता । अथ यतः परं न सम्भाव्यते सा काष्ठेति तन्न; कार्यद्रव्यैर्व्यभिचारात् । नहि सातिशया अपि घटादयः परा संभावनीयातिशायिनः, अन्यानवकाश- प्रसङ्गात् । एकेन सर्वव्याप्तेः । न च गुणत्वेनेति विशेषणान्न व्यभिचार इति वाच्यम्, तद्गतानां गरिमादीनां तदवस्थाऽसम्भवात् सर्वगुरुत्व- वद्भिरेककार्यारम्भाभावान् । ऐश्वर्यफलस्य धर्मस्य न सा काष्ठा तदपेक्षयैश्वर्यादिजननाद्धर्मस्यापि । ईश्वरैश्वर्यस्य धर्मफलत्वाभावात् । क्लेशकर्मविपाकाशयापरामर्शादने- कैश्वर्यप्रसङ्गादैश्वर्यव्याघातात् । ननु चेश्वरं विना कर्मणां फलदातृत्वञ्जगत्कर्तृत्वं वा नोपपद्यत इति तदर्थमीश्वरकल्पनमावश्यकमिति चेन्न, मीमांसकैः कर्मभिरेव तत्साधितत्वात् । तथाहि-उपदेशो विधिः, नाज्ञादिः, उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः । यथाऽऽरोग्यकामो जीर्णे भुञ्जीत, एष सुपन्था गच्छत्वनेन भवान्, आज्ञादिस्तु नियोक्तृप्रयोजनस्तत्राभिप्रायस्य प्रवर्तकत्वात्, अपौरुषेये वेदे च तदसम्भवात् । तदेवमुपदेशस्य नियो- ज्यानुष्ठात्रपेक्षितप्रयोजनानुकूलव्यापारगोचरत्वमेव । तथा च—“स्वर्ग- कामो यजेत” इत्यादी यागादयो नियोज्यापेक्षितस्वर्गादिसाधनतया गम्यन्ते । “स्वर्गकामो यजेत" इत्यादिश्रुतिभिः कर्मफलसम्बन्धः श्रूयते, न च