भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 207, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 207

३८८ वेदार्थपारिजातविमर्शः तस्या नित्यत्वेन सर्वदा सत्त्वेऽपि न सर्वदार्थबोधापत्तिः, वर्णो- च्चारणेनाभिव्यक्ताया एवार्थबोधजनकत्वात् । अयमेव जातिस्फोट- वादोऽपि । 'अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृतः।' यथा 'अयं घटः', 'अयं घटः', इत्यनुगतप्रतीत्या घटत्वं जातिरङ्गीक्रियते तथैव शुक-सारिका-मनुष्यादि-प्रयुक्तेषु प्रतीयमानवैलक्षण्येषु भिन्नेषु घटशब्देषु 'अयं घटशब्द' इत्यनुगतप्रतीत्या घटशब्दत्वं जातिरिति स्वीक्रियते । ननु घटशब्दे गुणत्व-शब्दत्व-घटशब्दत्व-जातीनां सत्त्वात् घटशब्दत्वे कथं शक्त्याश्रयत्वमिति चेन्न, घटे द्रव्यत्व-पृथिवीत्व-घटत्व-जातीनां सत्त्वेऽपि घटत्वस्यैव शक्तत्ववत् घटशब्दत्वस्यैव शक्तत्वव्यवस्थापनात् । यद्यपि घटावयवैर्घटावयविद्रव्यवत् क्रमजन्मवद्भिः क्षणिकैर्युग- पत्कालैर्वर्णैरवयवैरवयवस्थितैर्व्यवस्थितं शब्दान्तरं नारब्धुं शक्यमिति घट- त्वजातेः क आश्रयः स्यात् ? न च शब्दत्वजातिवत् घटशब्दत्वजातिः प्रत्येकवर्णपरिसमाप्ता, तथात्वे घकारादिष्वव्युच्चारितेषु घटशब्दत्व- प्रतीत्यापत्तेः, द्वितीयादिवर्णवैयर्थ्यापत्तेश्च । तथापि कर्मत्वजात्युपलक्ष्कि- तेषु क्रमविशेषयुक्तेषु पूर्वापरोद्भूतेषु कर्मसु भ्रमणत्वोत्क्षेपणादि- जातिवत् घटशब्दत्वजातिः सिद्ध्येव । यद्यपि तत्रापि पूर्वं कर्म, ततो विभागः, ततः पूर्वसंयोगनाशः, तत उत्तरसंयोगः, ततः कर्मनाशः, ततः कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मणि संयोगः, ततः कर्मनाशः, ततः कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मण्यविनष्टे सति न कर्मान्तरम् कर्मणोः सहानवस्थानात् । अतः कर्मान्तरसहितैः कर्मविशेषैरवयविस्था- नीयं कर्मान्तरं नारब्धुं शक्यमिति क्व भ्रमणत्वादि जातिः स्यात् ? तथापि उत्क्षिपति, भ्रमतीति भिन्नप्रत्ययभ्रमाजनककर्माणि उत्क्षेपणकर्मापेक्षया वैलक्षण्यदर्शनात् भिन्नानि कर्माणि प्रत्यवयवं भ्रमणत्वाश्रयत्वं प्रति- पद्यमानान्यपि प्रत्येकं कर्मदर्शनवेलायामुत्क्षेपणत्वाश्रयकर्मपेक्षया भेदम- प्रतिपद्यमानान्यपि इदं कर्मोत्क्षेपणत्वाभिव्यञ्जकं भ्रमणत्वाभिव्यञ्जकं वेति निर्धारयितुमशक्यत्वेऽपि यद्देशविशेपे संयोगविशेषान् जनयन्ति, अपेक्षाबुद्ध्या विषयीकृतानि क्रमानुवृत्तिं जनयन्तो दृश्यन्ते । तथा


वेदस्वरूप-विमर्षे ३८९ पूर्वपूर्वकर्मप्रत्यक्षाहितसंस्कारसहितेन चरमकर्मप्रत्यक्षेण भ्रमणत्व- मुत्क्षेपणत्वं वा जातिरभिव्यज्यते इति वैशेषिकाभ्युपगमः । तथैव घकारादयो घटशब्दस्याश्रयत्वं प्रतिपद्यमाना घन-घटक-बकाराद् भेदम्- प्रतिपद्यमाना घटशब्दत्वमनभिव्यञ्जयन्तोऽपि तदुत्तरोत्तरवर्णोपलम्भेन अपेक्षाबुद्ध्या विषयीकृताः क्रमानुवृत्तिं जनयन्ति तदा पूर्वपूर्ववर्णप्रत्यक्षा- हितसंस्कारसहितेन चरमवर्णप्रत्यक्षेण पूर्वमगृहीता व्यक्तं गृहीता घटशब्दत्वरूपा जातिः संस्कृते अन्तःकरणे व्यज्यते । तदेवाह्तं श्लोकवार्तिके— 'कण्ठताल्वादिसंयोगविभागक्रमपूर्वकम् । ध्वनीनामानुपूर्व्यं स्याज्जात्या चोभयनित्यता ॥ यथैव भ्रमणादीनां भागैर्जात्या च लक्षितैः । क्रमानुवृत्तिरेवं स्यात्ताल्वादिक्कनिभर्णभाक् ॥' वाक्यपदीयरीत्यापि शब्दार्थसम्बन्धानां नित्यतैव— 'नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः । सूत्राणां सानुमन्त्राणां भाष्याणाञ्च प्रणेतृभिः ॥' (वा० प० ब्र० का० २३) तत्र केषाञ्चिद्ररीत्या आकृतिनित्यत्वान्नित्यः शब्दः । आकृतिप्र- युक्तञ्चेदं शास्त्रम् । आकृतिरत्र जातिर्नावयवसन्रिवेशविशेषः । तन्मते शब्दस्य गुणत्वेन निरवयवत्वात् । शब्दार्थसम्बन्धानामनित्यत्वे पुरुषाणां स्वातन्त्र्ये शब्दार्थ- सम्बन्धाः स्वेच्छयाऽन्यथापि कृता भवेयुः । तस्मात्— शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ॥ यथा अर्थजातयः घटत्वादयः शब्दजातिबोध्याः । यथा वा अर्थ- जातीनां शक्यत्वम् शब्दजातीनाञ्च शक्तत्वम् इति । केचित्तु अनेकव्यक्त्विन्यङ्ग्यां नित्यां शब्दव्यक्तिं मन्यन्ते । शब्द- व्यक्तिगतस्तु कैश्चिद्वर्णभेदोऽभ्युपगम्यते । जातेर्नित्यत्वेन तदाश्रये शब्देऽपि नित्यत्वव्यवहारः । तदुक्तम्— 'आकृतिनित्यत्वान्नित्यः शब्दः' । नित्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णै- र्भवितव्यम् ।