भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 226, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 226

[पृष्ठ ४२६]

वेदस्वरूप-विमर्शः देव मन्त्राणामपि वेदसंज्ञा कृष्णयजुर्वेद एव ग्राह्या स्यात् । एवमितरत्र अधीतानां मन्त्राणामपि वेदसंज्ञा न सिद्धयेत् । न केवलमनेन ब्राह्मणा- नामेव वेदसंज्ञा विधीयते । यावत्र चाद्यपरिहारौ ब्राह्मणे तावेव मन्त्रेऽप्यु- द्भावयितुं शक्यौ । 'ययोरेव समो दोषः परिहारश्च तादृशः । नैकः पर्यनुयोक्तव्यस्ताहगर्थविचारणे ॥' इति । वस्तुतोऽपौरुषेयं वाक्यमेव वेदः । अपौरुषेयता च अविच्छिन्नपा- रम्पर्येण अस्मर्यमाणकर्तृ कत्वेन च निश्चीयते । ते च मन्त्रवत् ब्राह्मणेऽपि तुल्ये । अत एव 'तुल्यं तु साम्प्रदायिकम्' इति सूत्रेण अर्थवादानामपि साम्प्रदायिकता (अविच्छिन्नपारम्पर्यम् ) उक्ता । कौथुम-भाभ्रव्यादिना- दिसमा

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 226, कुल 237 में से · BharatKosha