भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 229, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 229

४३२ वेदस्वरूप विमर्श 'समिधं सोम्य आहर, उप त्वा नेष्ये' इति छान्दोग्योपनिषदि (४।४।५) च लभ्यते । "पियति त्वो' 'नेमे देवाः' इत्यपि निगमौ भवतः" (नि० १।२०।१) अत्र 'नेमे देवा' इति मन्त्रो यजुः काठकसंहितायाम् (१४।६)। 'नो परस्याविष्कुर्यात्' (नि० ३।५।२) अयं ब्राह्मणभाग एव । पाणिनेरप्येवमेव अभिमतम् । तथा हि--'मतुवसो रु सम्बुद्धौ छन्दसि' (८।३।१) अस्योदाहरणं 'भगवः इति शुश्राव' (छा० ४।५।१) । गोपथोऽथर्ववेदस्य ब्राह्मणमिति स्वामिदयानन्दोऽपि (सत्यार्थ- प्रकाशे ३ समुल्लासे, ४२ पृष्ठे) मनुते । तत्रैव गोपथब्राह्मणे— “अग्निमीळे" इत्येवमादिं कृत्वा ऋग्वेदमध्येधीयते । 'इषे त्वे'त्येवमादिं कृत्वा यजुर्वेदमध्येधीयते । 'अग्न आयाहि' इत्येवमादिं कृत्वा सामवेदमध्येधीयते । 'शन्नो देवी' इत्येवमादिं कृत्वा अथर्ववेदमध्येधीयते ।” (१।१।२६) । एवञ्च 'शन्नो देवी'रिति मन्त्रस्य सर्वासु संहितासु विद्यमानत्वेऽपि 'आदिं कृत्वा' इत्युक्त्या पिप्पलादसंहिताया एवात्र अथर्ववेदत्वमुक्तम् । यजुःसामान्यविवक्षायां 'यजुष्पुरः' इत्यादौ निर्विशेषेण यजुरिति प्रयोगात् । यजुर्विशेषविवक्षायां 'देवसुम्नयोर्यजुषि काठके' (७।४।३८) इत्यादौ सविशेषणं यजुःशब्दप्रयोगात् पाणिनेरपि वाजसनेयिसंहि- ताव्यरिक्तानामपि यजुषां सत्त्वं नूनमभिप्रेतम् । प्रत्याहाराह्निके 'एओङ्'सूत्रे—"ननु च भोः छन्दोगानां सात्य- मुगि राणायनीया अर्धमेकारमर्धमोकारञ्च अधीयते । 'सुजाते एश्व सूनृते पारिषदकृतिरेषा तत्रभवताम् । नैव हि लोके नान्यस्मिन् वेदेऽर्ध एकारोऽस्ति" इत्युक्त्वा राणायनीयशाखाया वेदत्वं महाभाष्यकारो- ऽभिप्रैति । अन्यत्र स एव लिखति—"वेदे । तद्यथा-'सप्तास्ये रेवती- रेवदूप "यद्वा रेवत्यां तमूष" इति ।


ब्राह्मणानों वेदत्वविमर्शः ४३३ 'यद्वा रेवती रेवत्यां तमूष' इति पाठश्चतसृषु सामाजिकाभिमत- संहितासु नोपलभ्यते । एवमेव महाभाष्यकारः -वेदशब्दा अपि एवमभिवदन्ति' इत्युक्त्वा योऽग्निष्टोमेन यजते, य उ चैनं वेद' इति ब्राह्मणमुदाहरति । तथा— 'वेदे खल्वपि वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः ऋतुभिर्यजेतेति' ब्राह्मण- वाक्योदाहरणानि वेदत्वेन अभिमतानि । निरुक्ते मन्त्रसार्थक्यविचारे 'ओषधे त्रायस्वैनम्' (१।१५।६) इति मन्त्रः समायाति । अयमेव च मन्त्रो मोमांसादर्शने (१।२।३५) उद्धृतः । परन्तु 'एनम्'-पदयुक्तो नायं मन्त्रो वाजसनेयिसंहितायां लभ्यते । काण्वेऽपि नायं पाठः, किन्तु कृष्णयजुष्येव काठकसंहितायाम् (३।२।९) मैत्रायणीसंहितायां (१।२।२) तैत्तिरीयसंहितायां (१।२।१।१, १।३।२।१) तत्र-तत्र लभ्यते । एवमेव वनस्पतिनिगममुदाहरन् यास्क आह—तस्यैषा अपरा भवति' (८।२०।१), वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् । वहा देवत्रा दिधिषो हवीषि प्र च दातारममृतेषु वोचः ॥' शाकलसंहितास्था च ऋक् एतद्विलक्षणा । तथा हि तत्र— 'वनस्पते रशनया नियूया देवानां पाथ उपवक्षि विद्वान् । स्वदाति देवः कृणवद् हवीषि अवतां द्यावापृथिवी हवं मे ॥' (१०।७०।१० इति पाठः । एतेन अन्यशाखास्थापि ऋगभीष्टा । निरुक्तप्रदर्शिता चेयमृक् मैत्राय- णीसंहितायां (४।१३।६५) किञ्चित् पाठभेदेन उपलभ्यते । निरुक्ते 'दिधिषो' इति पाठः, संहितायाञ्च 'दधिषो' इति पाठः । यदि तावतैव कस्यापि पाठस्यानुक्तत्वं तदा शाकलसंहितायां (१०।१८।८) 'दिधिषोः' शौनकीयाथर्वसंहितायाञ्च (१८।३।२) 'दधिषोः' इति पाठः—एतयो- रन्यतरस्य अवेदत्वमायास्यति । परं तन्नेष्यते सामाजिकैरपि । निरुक्ते— 'एक एव रुद्रोऽवतस्थे न द्वितीयः' (११।२।७), 'अग्नये समिध्यमानाय अनुब्रूहि' (११।४।८) इति मन्त्रोदाहरणम् । परं समाजिकसम्मतवेद- चतुष्टये नैतदुपलभ्यते । वे० वि०–२८