भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 236, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 236

४४६ वेदस्वरूपविमर्शे रूपानुपूर्वी सम्भवति । सा च सर्वथा अनित्यैव सम्भवति, न नित्या । अत एव शिक्ष्यमाणा नर्तकी यथा शिक्षकगात्रविक्षेपमनुकरोति तथैव माणवकोऽप्याचार्योच्चारितां मन्त्रानुपूर्वीमनुकरोति । अनुकरणीयगात्र- विक्षेपादनुकर्तृविक्षेपादनुकर्त्या गात्रविक्षेपभेदवत् आचार्योच्चारिताया आनुपूर्व्या माणवकोच्चारितानुपूर्व्या अपि भेद एव । तथापि प्रति- कल्पं समानरूपत्वात् एकरूपत्वात् निश्चितत्वाच्च आनुपूर्व्याः प्रवाह- रूपेण नित्येति व्यपदिश्यते । प्रतिकल्पं तद्भेदेन चासमानरूपत्वेन अनिश्चितत्वात् अनित्येत्युच्यते । तत्रानुपूर्व्या अनित्यता नैयायिकादि- रीत्या, नियतता किञ्च मीमांसकरीत्या सङ्गच्छते । अस्मिन् पक्षे 'तेन प्रोक्तमि'त्यनेनैव प्रत्ययः । बहूनां प्रवक्तृत्वेऽपि कठादिविशिष्टनाम्नैव प्रत्ययः । यथा बहूनां मातृत्वेऽपि देवदत्तमातेति समाख्या भवति, तद्वत् । अत्र पक्षे 'समाख्या प्रवचनात्' इति जैमिनिसूत्रं 'वाचा विरूप नित्यया' इति मन्त्रश्च आञ्जस्येन सङ्घटते । सर्वथाऽपि 'पदकारैर्नाम लक्षणमनुवर्त्यमि'ति भाष्यं प्रौढिवादाभि- प्रायकमेव ज्ञातव्यम् । पदपाठपौरुषेयत्ववादिनापि पदपाठस्य शाकल्या- दृषिकर्तृकत्वाङ्गीकारात् । पदक्रममूलिका एव जटा मालाद्या अष्टौ विकृ- तयोऽपि । तासामपि पौरुषेयत्वे वशिष्ठ-विश्वामित्र-पराशराष्टावक्राद्यृ- षिकर्तृकत्वमेव । ऋषयश्च लक्ष्यैकचक्षुष्का एव भवन्ति, न लक्षणैक- चक्षुष्काः । तेन लक्षणान्येव ताननुवर्तेरन्, न ते लक्षणानुवर्तिनः । ऋषिकृतपदानां छन्दस्तुल्यत्वेन न तत्र लक्षणविरोधो दूषणाय भवति, 'छन्दोवत् सूत्राणि भवन्ति' इत्युक्तेः । तदर्थमेव 'पृषोदरादीनि यथोप- दिष्टम्' । (पा० सू० ६ । ३ । १०६) इति सूत्रञ्च । न च पाणिन्याद्युक्तय एव तथाभूता इति वाच्यम्; वाल्मीक्याद्युक्ती- नामपि आर्षत्वेनैव लक्षण-विरोधपरिहारदर्शनात् । 'मनायेतरायवा' इत्याद्युदाहरणानि । 'आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ ब्राह्मणानां वेदत्वविमर्शः ४४७ अतीन्द्रियानसंवैद्यान् पश्यन्त्यार्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥' इति 'पृषोदरादीनि' सूत्रे कैयटः । छन्दसि दृष्टानुविधिर्हि भवति । अत एव 'व्यत्ययो बहुलम्' ( पा० सू० ३ । १ । ८५ ) इत्यत्र भाष्यम्— 'सुप्तिङुपग्रहलिङ्गन्नराणां कालहलच्स्वरकर्तृ यङाञ्च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥' इति । वस्तुतस्तु पदपाठस्यापौरुषेयत्वमित्युक्तमेव । 'सूर्यऋषिर्मन्त्रकृत्' (ऐ० ब्रा० ६।१) 'यत्र धीरा मनसा वाचमक्रत' (ऋ० सं० १०।७१।२) 'ऋषिः कुत्सः कर्ता भवति स्तोमानामित्युपमन्यवः' (नि० ३।२।५) 'ऋषे मन्त्रकृतां स्तोमैः' (ऋक्संहिता ९।११४।२) इत्यादिप्रमाणैः यथा मन्त्राणां कर्तृत्वश्रवणेऽपि सम्प्रदायप्रवर्तनमेव अर्थः, तथैव ऐतरेय- याज्ञवल्क्यादीनामपि कर्तृत्वश्रवणं सम्प्रदायप्रवर्तन एव पर्यवस्यति । वस्तुतः पदपाठस्यापौरुषेयत्वमित्युक्तमेवेति आस्तां विस्तरः । इति पदवाक्यप्रमाणपारावारीणपरमहंसपरिव्राजकाचार्यवर्य अनन्त- श्रीस्वामिहरिहरानन्दसरस्वती महाराज विरचितः वेदस्वरूप विमर्शः पूर्णतामभजत् । ॥ ॐ तत्सत् ॥