वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 236, कुल 237 में से
संदर्भ में पढ़ें४४६ वेदस्वरूपविमर्शे रूपानुपूर्वी सम्भवति । सा च सर्वथा अनित्यैव सम्भवति, न नित्या । अत एव शिक्ष्यमाणा नर्तकी यथा शिक्षकगात्रविक्षेपमनुकरोति तथैव माणवकोऽप्याचार्योच्चारितां मन्त्रानुपूर्वीमनुकरोति । अनुकरणीयगात्र- विक्षेपादनुकर्तृविक्षेपादनुकर्त्या गात्रविक्षेपभेदवत् आचार्योच्चारिताया आनुपूर्व्या माणवकोच्चारितानुपूर्व्या अपि भेद एव । तथापि प्रति- कल्पं समानरूपत्वात् एकरूपत्वात् निश्चितत्वाच्च आनुपूर्व्याः प्रवाह- रूपेण नित्येति व्यपदिश्यते । प्रतिकल्पं तद्भेदेन चासमानरूपत्वेन अनिश्चितत्वात् अनित्येत्युच्यते । तत्रानुपूर्व्या अनित्यता नैयायिकादि- रीत्या, नियतता किञ्च मीमांसकरीत्या सङ्गच्छते । अस्मिन् पक्षे 'तेन प्रोक्तमि'त्यनेनैव प्रत्ययः । बहूनां प्रवक्तृत्वेऽपि कठादिविशिष्टनाम्नैव प्रत्ययः । यथा बहूनां मातृत्वेऽपि देवदत्तमातेति समाख्या भवति, तद्वत् । अत्र पक्षे 'समाख्या प्रवचनात्' इति जैमिनिसूत्रं 'वाचा विरूप नित्यया' इति मन्त्रश्च आञ्जस्येन सङ्घटते । सर्वथाऽपि 'पदकारैर्नाम लक्षणमनुवर्त्यमि'ति भाष्यं प्रौढिवादाभि- प्रायकमेव ज्ञातव्यम् । पदपाठपौरुषेयत्ववादिनापि पदपाठस्य शाकल्या- दृषिकर्तृकत्वाङ्गीकारात् । पदक्रममूलिका एव जटा मालाद्या अष्टौ विकृ- तयोऽपि । तासामपि पौरुषेयत्वे वशिष्ठ-विश्वामित्र-पराशराष्टावक्राद्यृ- षिकर्तृकत्वमेव । ऋषयश्च लक्ष्यैकचक्षुष्का एव भवन्ति, न लक्षणैक- चक्षुष्काः । तेन लक्षणान्येव ताननुवर्तेरन्, न ते लक्षणानुवर्तिनः । ऋषिकृतपदानां छन्दस्तुल्यत्वेन न तत्र लक्षणविरोधो दूषणाय भवति, 'छन्दोवत् सूत्राणि भवन्ति' इत्युक्तेः । तदर्थमेव 'पृषोदरादीनि यथोप- दिष्टम्' । (पा० सू० ६ । ३ । १०६) इति सूत्रञ्च । न च पाणिन्याद्युक्तय एव तथाभूता इति वाच्यम्; वाल्मीक्याद्युक्ती- नामपि आर्षत्वेनैव लक्षण-विरोधपरिहारदर्शनात् । 'मनायेतरायवा' इत्याद्युदाहरणानि । 'आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ ब्राह्मणानां वेदत्वविमर्शः ४४७ अतीन्द्रियानसंवैद्यान् पश्यन्त्यार्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥' इति 'पृषोदरादीनि' सूत्रे कैयटः । छन्दसि दृष्टानुविधिर्हि भवति । अत एव 'व्यत्ययो बहुलम्' ( पा० सू० ३ । १ । ८५ ) इत्यत्र भाष्यम्— 'सुप्तिङुपग्रहलिङ्गन्नराणां कालहलच्स्वरकर्तृ यङाञ्च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥' इति । वस्तुतस्तु पदपाठस्यापौरुषेयत्वमित्युक्तमेव । 'सूर्यऋषिर्मन्त्रकृत्' (ऐ० ब्रा० ६।१) 'यत्र धीरा मनसा वाचमक्रत' (ऋ० सं० १०।७१।२) 'ऋषिः कुत्सः कर्ता भवति स्तोमानामित्युपमन्यवः' (नि० ३।२।५) 'ऋषे मन्त्रकृतां स्तोमैः' (ऋक्संहिता ९।११४।२) इत्यादिप्रमाणैः यथा मन्त्राणां कर्तृत्वश्रवणेऽपि सम्प्रदायप्रवर्तनमेव अर्थः, तथैव ऐतरेय- याज्ञवल्क्यादीनामपि कर्तृत्वश्रवणं सम्प्रदायप्रवर्तन एव पर्यवस्यति । वस्तुतः पदपाठस्यापौरुषेयत्वमित्युक्तमेवेति आस्तां विस्तरः । इति पदवाक्यप्रमाणपारावारीणपरमहंसपरिव्राजकाचार्यवर्य अनन्त- श्रीस्वामिहरिहरानन्दसरस्वती महाराज विरचितः वेदस्वरूप विमर्शः पूर्णतामभजत् । ॥ ॐ तत्सत् ॥