भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 38, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 38

पृष्ठम् ५०

तस्मात् परमदुर्विज्ञेयानवेदनीयरूपत्वाद् वेदवाक्यानां निरुक्तविद्यामन्तरा सम्यगर्थोऽवगन्तुं न शक्यः । तेन तपोऽनवरेण पारगमनमशक्यम् । अतपस्विना सर्वथाऽप्यायुरिच्छता निरुक्तशास्त्रमनित्थं कल्प्यम् । अतपस्वी, आगमवानपि मलिनान्तःकरणत्वात् न शक्नोति यथावदवबोद्धुम् । ततोऽध्यायसिद्धयेत । एतदभिप्रायेणैव— 'यामृषयो मन्त्रकृतो मनीषिणोऽन्वैच्छन् देवास्तपसा श्रमेण । तां दैवीं वाचं हविषा यजामहे, सा नो दधातु सुकृतस्य लोके' (तैत्ति० २।७।७), 'नमः ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मा मामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्माहमृषीन् मन्त्रकृतो मन्त्रपतीन् परादाम् (तै० आ० ४।१।१)। इत्यादीनि ब्राह्मणवाक्यानि सङ्गच्छन्ते । एतेन - 'इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्याः ।' इति (गोपथ १।१) श्रुतिरपि व्याख्याता । यत्तु - "देवा इह पारोवर्यविदः शुनःशेपोऽनूचाना वेदनैव देवाना- मपि पारोवर्यविद्बभूव" इत्युक्तम् । तदप्यकिञ्चित्करम्; अविच्छिन्नाचार्य- परम्परया मन्त्राधीयन्त एवेति पारोवर्यविद्वोक्तेः । यदुक्तम् - "न ह्येषा वाक्यरचना स्वतः सम्भवति, शरीरबुद्धीन्द्रियो- पपाद्यत्वात्" इति । तदपि निःसारम्; शरीरबुद्धीन्द्रियोपपाद्यत्वेऽपि नित्यसत्तायोगेन पौरुषेयत्त्वासिद्धेः । तावन्मात्रेण तत्त्वे तु रघुवंश- शाकुन्तलादिसर्गादिकाव्यपत्तेश्च । परापश्यन्तीरूपायां पौरुषेयापौरुषेयत्वचिन्ता तु निर्विषयत्वात् दूरीसारितैव । किञ्च—'जानाति, इच्छति, अथ करोती'तिरीत्या रचनाया ज्ञानेच्छा- पूर्वकत्वम् ।


पृष्ठम् ५१

'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥' इति वाक्यपदीयरीत्या ज्ञानस्य शब्दानुविद्धत्वं तु प्रसिद्धमेव । अत एव सृष्टेर्ज्ञानपूर्वकत्वेन ज्ञानस्य च शब्दानुविद्धत्वात् परमेश्वरेणापि शब्द- पूर्वकं जगत् रच्यते—'स भूरिति व्याहरत्, तस्माद्भुवमसृजत्', 'वेद- शब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे' इत्यादि-श्रुतिस्मृतिभ्यः । ईश्वरीय- ज्ञानस्य नित्यत्वेन तदनुविद्धानां शब्दानाम् अपि नित्यत्वादपौरुषेयत्वमेव । अनन्तता च 'अनन्ता वै वेदाः' इतिश्रुतेः परादिविभागस्तु वाक्यपदीये— 'वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ केवलं बुद्धयुपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥' ननु 'न सोऽस्ति प्रत्ययो लोके...' इत्ययं सिद्धान्तोऽपि पश्यन्तीमेव अभिलक्ष्य बोद्धव्यः, तत्र शब्दार्थयोरविभक्तत्वात् । विभक्तयोस्तु न्यायसूत्रभाष्यादिदृष्ट्या अन्यथापि निर्वाहसंभवात् । तथा हि तत्रत्यं न्यायभाष्यम् - 'इन्द्रियार्थसन्निकर्षादुत्पन्नं ज्ञानं रूपमिति वा रस इत्येवं भवति । रूपरसशब्दाश्च विषयनामधेयम् । तेन व्यपदिश्यते ज्ञानं रूपमिति जानीते । तेन शब्दं प्रसज्यते । अत आह— अव्यपदेश्यमिति । यदिदमनुपयुक्ते शब्दार्थसम्बन्धेऽर्थज्ञानम्, न तन्नामधेयशब्देन व्यपदिश्यते । गृहीतेऽपि च शब्दार्थ- सम्बन्धे 'अस्यायं शब्दो नामधेयमि'ति यदा सोऽर्थो गृह्यते, तदा तत्पूर्वंसमाख्यादर्शनात् विशिष्यते । तदर्थविज्ञानं तादृगेव