वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 45, कुल 237 में से
संदर्भ में पढ़ेंनृत्तानुकरणवद् गुरुशिष्यानुच्चारयितॄणां भेदेनानुपूर्व्यां भेदाभ्युपगमे- ऽपि साजात्यमस्त्येव । एकानुपूर्वीकवर्णसमुदायव्यञ्जकत्वमेव उच्चा- रणानामन्योन्यसाजात्यम् । तथा सति काठकादिषु कठादिकृतत्वेऽपि फलतः प्रवचनकर्तृत्वमेव, प्रथमोच्चारयितृत्वासिद्धत्वात् । वेदे सर्वेषा- मेवोच्चारणानां पूर्वपूर्वोच्चारणसापेक्षत्वेन स्वातन्त्र्याभावेन अपौरुषे- यत्वसिद्धेः स्फुटत्वात् । विस्तरस्तु उपरिष्टाद् भविष्यति । न चैवंविधस्य कर्तृत्वस्य सर्वेषामेवोच्चारयितॄणां संभवात् सर्वत्र प्रत्ययो भवेत् । तथा च काठकं कालापकमिति समाख्या कथं प्रसिद्धय- तीति वाच्यम्; वैशेष्यात् तद् दूत्यायेन विशिष्टप्रवक्तृत्वेन काठकादि- समाख्याया उपपत्तेः । यथा वा देवदत्त-यज्ञदत्ताद्यनेकपुरुषाणां मातृत्त्वे समानेऽपि 'देवदत्तमाते'ति समाख्या प्रसिद्धयति, तथैव काठकादिनाम्ना समाख्या प्रसिद्धा । प्रतिकल्पं वा सुप्तप्रतिबुद्धन्यायेन तपस्यता वा कठा- दिभिः शाखां दृष्ट्वा प्रवचनं कृतमिति तन्नाम्ना समाख्योपपत्तिः । अश्वकर्णादिवद् वा शब्दार्थानपेक्षयैव तत्समाख्योपपत्तेः । 'मन्त्रकृदृषयः मन्त्रकृतः' इत्यादिमन्त्राश्च लौकिकाध्ययनमन्तरा तपस्यया मन्त्रान् दृष्ट्वा ऋषयः तेषामानुपूर्वी निर्मितवन्त इत्यस्यैवार्थस्य बोधकाः । तथात्वेऽपि न तेषां प्रथमोच्चारयितृत्वरूपं कर्तृत्वं पूर्वसिद्धानुपूर्वीसापेक्षत्वेन तत्र स्वातन्त्र्याभावात् । पूर्वोक्तरीत्या वर्णानुपूर्वीणां तत्तद्गुरुशिष्यानु- च्चारयितृभेदेन कृतत्वेऽपि नियतत्वात् अनादिकालात् प्रवाहविच्छेदेनैके- रूपतैव । पुरुषस्वातन्त्र्याभावान्न तत्र व्युत्क्रमः । पुरुषस्वातन्त्र्ये तु 'वर्णा- नुपूर्वी खल्वाम्नाये नियता' इति भाष्यमसङ्गतमेव स्यात् । 'अस्य वाम'- इति मन्त्रे एव आनुपूर्वी नियतेति न भ्रमितव्यम् ; उक्तमन्त्रस्य निदर्शन- मात्रत्वात् , न्यायस्य तुल्यत्वात् । कैयटादिवचनान्यपि आनुपूर्वी- नैरन्तर्यानुकूल्येन नेयानि । यदुक्तम्- "कदाचिदनीदृशं जगदिति मन्यमानाः श्रुतं स्मृतञ्च प्ररोचनार्थत्वेनाप्रमाणं कथयन्तो मीमांसकाः साधयन्तु नाम वर्णानुपूर्वी- नित्यत्ताम् । श्रुतिपुराणोद्युक्त-सृष्टिप्रलयादिक्रमे विश्वसतां शिष्टानां
न इतोऽन्या युक्त्यभ्युपेता प्रक्रिया संभवति यत् 'कल्पादावाविर्भूता ऋषय एव ईश्वरप्रसादेन तत्तज्ज्ञानमुपलभ्य मन्त्रादीन् विरचयन्ती'ति । तदपि चित्रम्; पूर्वोत्तरमीमांसकानामेव वेदविचारे शिष्टैः प्रामाणि- कत्वाभ्युपगमात् । अपौरुषेयवेदानभ्युपगमेन ईश्वर-तत्प्रसाद-तज्ज- मन्त्रार्थसाक्षात्कारासिद्धेश्च । 'पद-वाक्यप्रमाणपारावारीणे'त्यादि-शब्दावलिराचार्येषु पण्डितप्रका- ण्डेषु च प्रयुज्यते । तत्र पदशब्देन व्याकरणशास्त्रं गृह्यते । वाक्यशब्देन वेदविचारात्मिके पूर्वोत्तर-मीमांसे गृह्येते । प्रमाणशब्देन च न्यायवैशेषिक- शास्त्रे गृह्येते । तत्र वैदिकविज्ञानवादिभिः वाक्यशास्त्रे पूर्वोत्तरमीमांसे अपेक्ष्य वेदविचारे न्यायवैशेषिकमते गृह्येते । अन्ते ते अप्युपेक्ष्येते । नैयायिकैर्वैशेषिकैः पौरुषेयत्ववादिभिरपि- 'तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।' इत्यादिमन्त्ररीत्या वेदानां परमेश्वरकर्तृकत्वमास्थीयते । विज्ञान- वादिभिस्तु जीवकर्तृकत्वमङ्गीक्रियते । तावताऽपि आस्तिकत्वं शिष्टत्वञ्च स्यात्स्वयमपि स्वात्मन्येव च मन्यते । नहि प्ररोचनापरत्वं वेदवाक्यानां न संभवति । 'प्रजापतिरात्मनो वपामुदखिद'दित्यादिवाक्यानां नैयायिका- दिभिरपि तथात्वाभ्युपगमात् । वस्तुतस्तु - विज्ञानवादिभिरेव श्रुतं स्मृतञ्च वेदानां नित्यत्वं परमे- श्वरादाविर्भूतत्वञ्च अप्रमाणीकृत्य तेषां जीवकर्तृकत्वमास्थीयते । तस्मात् वेदविचारे वाक्यशास्त्राश्रयणमेव युक्तम् । न्याय-योगादिमतस्यापि वेदविरुद्धोंऽशस्त्याज्य एव । तत एव उत्तरमीमांसायां 'ईक्षतेर्नाशब्दम्', 'एतेन योगः प्रत्युक्तः', 'महद्दीर्घवद्वा' 'ह्रस्वपरिमण्डलाभ्यामि'त्यादिभिः सांख्य-योग-न्यायादिमतानां वेदविरुद्धांशाः खण्डिताः । यदप्युक्तम्-- "अस्मर्यमाणकर्तृकत्वाद् अपौरुषेयत्वं शब्दरचना- त्मकानां वेदानां साधयन्ति मीमांसकाः । तत्र आख्यायाः प्रवचनजन्यत्वे अङ्गीकृते अस्मर्यमाणकर्तृकत्वम्, ततश्च अपौरुषेयत्वसिद्धिः, सिद्धे चापौरुषेयत्वे आख्यायाः प्रवचनजन्यत्वनिश्चय इति चक्रकमपि दुरुद्धर- ५