भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 47, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 47

६८ | वेदस्वरूप-विमर्शः प्रसादाद्विशिष्टज्ञानेन स्तुतिं प्रयुङ्क्त इति विवक्षितम्, तदा देवता- प्रसादात् प्राप्तेन मन्त्रेण स्तुतिं प्रयुङ्क्ते इत्येव ग्रहणमुचितम् । यदुक्तम्—"न कामना पुरुषविशेषस्यैव भवति । तेन ईश्वरप्रोक्तता अपौरुषेयता च नोपपद्यत इति । तन्न; कामनायाः पुरुषविशेषाश्रयत्वे- ऽपि कामपूरकस्तुतिनिर्मातृस्य तदधीनत्वात् । दृश्यन्तेऽद्यापि तत्तत्- कामनया स्वतःसिद्धैरन्यनिमित्तैर्वा वैदिकैस्तान्त्रिकैश्च मन्त्रैस्तास्ता देवताः स्तुवन्तः सकामा जनाः । बौद्धार्हतादितन्त्रेष्वपि निष्कामबुद्धादिनिर्मिता मन्त्राः सकामै- स्तत्तत्कामनया प्रयुज्यन्ते । नहि सकामानां स्तावकत्वे स्तुतिवचनान्यपि तन्निर्मितानीति निश्चेतुं शक्यते । अत एव 'एवमुच्चावचैरभिप्रायैर्मन्त्रदृष्टयो भवन्ती'त्येवोक्तम्, न तु मन्त्रकृतय इति । ऋषीणामभिप्रायैर्मन्त्रदर्शनं भवति । व्याख्यत- ञ्चैतद् दुर्गाचार्येण— 'एवमनेन प्रकारेण उच्चावचैराभिप्रायैः बहुभिः अथवा प्रकृष्टौ प्रकृष्टमध्यमैर्मन्त्राभिव्यक्तिनिदानभूतैः ऋषीणां दृष्टयो भवन्ति, मन्त्रदर्शनानि भवन्ति । विद्यमानानामेव मन्त्राणामृषयो येन केनचिन्निमित्तेन निदानभूतेन हर्ष-शोक-निन्दा-प्रशंसादिना मन्त्राणां द्रष्टारो भवन्ति, न तु कर्तार इत्यभिप्रायः ।' तदेवम् अनादिमन्त्राणामृषयो द्रष्टारो न कर्तार इति । तास्त्रिविधा ऋचः—परोक्षकृताः, प्रत्यक्षकृताः आध्यात्मिकाश्च । ऋच एव आंतवरामविहितार्थाः, न तथा यजूंषि । तासु विदितासु तानि विदितानि भवन्ति । परोक्षकृताः ऋचः सर्वाभिर्नामविभक्तिभिर्युज्यन्ते, प्रथमपुरुषैश्च आख्यातस्य । यथा — 'इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रमिद्गाथिनो...' इत्यादिरप्रत्यक्ष- कृताः मध्यमपुरुषयोगात् । त्वमिति चैतेन सर्वनाम्ना—'त्वमिन्द्र बला- दधिचिन इन्द्रसृधी जहि' इति । क्वचित् प्रत्यक्षकृताः स्तोवारः, परोक्ष- कृतानि च स्तोतव्यानि—'माचिदन्याद्विशंसत सख्या अभि प्र गायतोष- प्रेत । कुशिकाश्चेतयध्वम्' इति ।


वेदस्वरूप-विमर्शः | ६९ उत्तमपुरुषेण युक्ता आध्यात्मिक्यो यथा— 'अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सञ्जयामि शश्वतः । मां हवन्ते पितरं न जन्तवो अहं दाशुषे विभजामि भोजनम् ॥' इति । वसुनः = धनस्य, पूर्व्यः = प्रथमः पतिः, साम्प्रतमप्यहमेव पतिः । अहमेव च शत्रुभ्यः सकाशात् समस्तानि धनानि जयामि, शश्वतो नित्यकालमेव । किञ्च—मामेव ह्वन्ते = आह्वयन्ति, पितरं न = पितर- मिव तासु तासु आर्त्तिषु, जन्तवो मनुष्याः । किञ्च—अहमेव दाशुषे = दत्तवते हवींषि यजमानाय विभजामि, यथार्हं भोजनं धनमित्यर्थः । शपथाभिशापयोः उदाहरणम्—'अद्यामुरीय यदि यातुधानो अस्मि...' इति । वशिष्ठः किल राक्षसमित्यभियुक्तः । सोऽनया ऋचा शपथं प्रतिपेदे, परञ्चाभिशशाप— 'अद्यामुरीय यदि यातुधानोऽस्मि, यदि वायुस्ततप पूरुषस्य । अधा सबीरैर्दशभिर्वियूया यो मा मोघं यातुधानेत्याह ॥' (ऋ० सं० ७ । १०४ । १५) अद्यैवाहं म्रिये यदि यातुधानः स्याम् । यदि वाम आयुः ततप तप्तवा- नहं कस्यचिदपि पुरुषस्य । अथ यदि पुनरयातुधानमेव मां सन्तं यो मोघमनृतं यातुधानस्त्वमित्याह, स वीरैः दशभिः वियूयाः वियुज्यता- मित्यभिशापः । अथापि परिदेवना कस्मात् ? चिद्भावात् । 'सुदेवो अद्य प्र पतेदनावृत् परावतं परमा गन्तवा उ । अधाशयीत निर्ऋतेरुपस्थेऽथैनं वृका अद्युः ॥' (ऋ० सं० १० ९५ । १४ ।) पुरूरवस आर्षं स शोभनो देवः स्यात् योऽद्य तथा प्रियया वियुक्त अद्यैवा भृगुप्रपातम् अनावर्त्तमानः प्रपतेत । पतितश्च दूराद्दूरतरं गच्छेत् । अथ गत्वा शयीत । मृतः सन् निर्ऋतेर्भूमेरुपस्थे उपरि । अथैनं ताम- वस्थामापन्नं वृका विकर्त्तारश्च शृगालाद्य रवसा रभस्वन्तो वेगवन्तः