भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 49, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 49

७२

वेदस्वरूप-विमर्शः

तदपि निःसारम्; 'एतत्सूक्तं प्रतिबभौ' इति सूक्तप्रतिभान- स्यैव स्पष्टतया वर्णनात् । 'मन्त्रदृष्टयः', 'सूक्तं प्रतिबभौ', 'ऋषिर्दर्शनात्' इत्यादीनि मन्त्र-सूक्त-दर्शन-प्रतिभानबोधकानि निरुक्तवचनानि दृष्ट्वाऽपि येषां हृदि मन्त्राणां कृतकत्वशङ्का भवेत्, तेषां समाधान- मपि दुश्शकमेव । अत्र सूक्तप्रतिभानं मन्त्रदर्शनञ्चोक्तम्, न तु सूक्तार्थप्रतिभानम् मन्त्रार्थदर्शनं वोक्तं न वा सूक्तमन्त्रादिनिर्माणम् । न चेश्वरनिर्मिते अपौरुषेये वा सूक्ते तदितिहासगाथामिश्रणा संभवात् तन्निर्मितत्वकल्पनं युक्तम् ; ईश्वरप्रदत्ते सूत्रार्थभानेऽपि तत्सम्भवस्य तुल्यत्वात् । यदि च सूत्रार्थप्रतिभाने तत्सम्भवस्तदा सूत्रेऽपि तत्सम्भवे बाधोभावः समान एव । सर्वत्र हि वेदे फलवन्नि- श्चितार्थबोधकत्वेन प्रामाण्यम् । गाथेतिहासाख्यायिकादीनामपि तत्रैव स्वारस्यात्, 'सर्वे वेदा यत्पदमामनन्ति', 'आम्नायस्य क्रियार्थत्वात्' इत्यादिश्रुतिसूत्रेभ्यः । यदपि—"साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽसाक्षात्कृत- धर्मेभ्य उपदेशेन मन्त्रान् संप्रादुः, उपदेशाय ग्लायन्तोऽवरे बिल्म- ग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं वेदाङ्गानि च । विल्मं भिल्मं भासनमिति निरुक्तबलेन ऋषीणां धर्मसाक्षात्कारः, तत्कृताश्च वेदमन्त्राः" इति प्राहुः । तदपि न सम्यक् ; निरुक्तवचनस्य अन्यथाऽर्थोपपत्तेः । तदुक्तं तट्टीकाकृता दुर्गाचार्येण—'ऋषन्त्यमुष्मात् कर्मण एवमर्थवतः मन्त्रेण युक्तादमुना प्रकारेण एवंलक्षणः फलादिपरिणामो भवतीत्यृषयः, ऋषिर्दर्शनात् इति वक्ष्यति' (नि० २ । १ ।) । तदेतत्कर्मणः साक्षात् फल- विपरिणामदर्शनमौपचारिक्या वृत्त्योक्तं साक्षात्कृतधर्माण इति । नहि धर्मस्य दर्शनमस्ति । अत्यन्तापूर्वो हि धर्मः । ननु कथमेवं धर्मशब्दस्य वेदोऽर्थो गृह्यत इति चेत् ? यथा 'सूक्तं प्रतिबभौ, मन्त्रदृष्टय' इत्यादिषु सूक्तमन्त्रादिशब्दानां सूक्तार्थ-मन्त्रार्थ- ग्रहणं भवद्भिः क्रियते, तथैवेतद्वेहि । इह तु ब्राह्मणप्रामाण्यमपि वक्ष्यते इत्यधिकम् । ननु साक्षात्कृतधर्माणं श्रवणमन्तरेणैव मन्त्राणां तपोबलेन


वेदस्वरूप-विमर्शः

७३

साक्षात्कारः, तेऽवरेभ्यः शक्तिहीनेभ्यः श्रुतर्षिभ्य उपदेशेन शिष्यो- पाध्यायिकया वृत्त्या मन्त्रान् सम्प्रादुः सम्प्रत्तवन्तः । ऋषीणां तपोमाहात्म्यात् उपदेशमन्तरेव वेदादेव संशयविपर्ययादि- राहित्येन कर्मतत्फलयोः कार्यकारणभावावबोधः । निश्चयाश्रयं साक्षा- त्कारवदेव संशयादिरहितत्वेन साक्षात्कार उच्यते । अन्यैस्तु यागादिमात्रफलं सुखादिकमेव धर्मपदेन लक्षणया उच्यते । तस्यैव साक्षात्कारः संभवति, न धर्मस्य । अन्यैस्तु धर्मपदेन धर्मावबोधकस्य वेदस्यैव ग्रहणमिष्यते । अत्रार्थे ब्राह्मणमपि—'तद्यदेनांस्तपस्यमानान् स्वयम्भु ब्रह्माम्यनार्षत् । तदृषीणा- मृषित्वम् ' मन्त्रसाक्षात्कर्तृत्वेनैव ऋषित्वम् । एवं साक्षात्कृतधर्मभिरसाक्षात्कृतधर्मेभ्यो मन्त्रदानम् । अथ तेऽपि उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं वेदाङ्गानि च कथं नामोपदिश्यमानमेते शक्नुयुर्ग्रहीतुमित्येवमर्थमधिकृत्य ग्लायन्तः खिद्यमानास्तेष्वनुगृह्णन्तस्तदनुकम्पया तेषामायुषः सङ्कोच- मवेक्ष्य कालानुरूपाञ्च ग्रहणशक्तिं बिल्मग्रहणाय इमं ग्रन्थं वेदं वेदाङ्गानि समाम्नातवन्तः । कथं पुनः समाम्नासिषुरित्याह—वेदं तावदेकं सन्तमतिमहत्त्वाद् दुर- ध्येयमनेकशाखाभेदेन समाम्नासिषुः सुखग्रहणाय व्यासेन समाम्नात- वन्तः । तद्यथा—एकविंशतिधा बाह्वृच्यमेकशतमध्वर्यवं सहस्रधा साम नवधा आथर्वणम् । वेदाङ्गानि च व्याकरणमष्टाधा निरुक्तं चतुर्दशधे- त्येवमादि । एवं समाम्नासिषुर्भदेन ग्रहणार्थम् । कथं नाम भिन्नान्येतानि शाखान्तराणि लघूनि सुखं गृह्णीयुरेते शक्तिहीना अल्पायुषो मनुष्या इत्येवमर्थं समाम्नासिषुः—बिल्मं भिल्मं वेदानां भेदनम् । भेदो व्यासः भासनमिति । अथवा भासनमेव बिल्म- शब्देनोच्यते । वेदाङ्गविज्ञानेन भासते प्रकाशते वेदार्थ इत्यत इदमुक्तं बिल्ममिति । एवमेव 'ऋषिर्दर्शनात्' (२ । ११) इत्यत्राप्युक्तम् । पश्यति ह्यसौ सूक्ष्मानप्यर्थान् स्तोमान् ददर्शेत्यौपमन्यव आचार्यो मन्यते । ब्राह्मणञ्चात्र