वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
DevanagariHindipublished237 पृष्ठ
पृष्ठ 51, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ 51
७६ वेदस्वरूप-विमर्शः यद्युक्तम्- 'रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥' (ऋ० ३ । ३३ । ५) अस्यार्थः-हे सुजला नद्यः मन्मधुरवचनैः शीघ्रगमनान् मुहूर्तार्थं विश्राम्यताम् । कुशिकस्य पुत्रोऽहं स्वात्मरिरक्षिषया मनीषाऽनुसारेण प्रार्थये इति । मन्त्रस्यास्य ऋषिर्नदीः स्तौति । निरुक्तकृता चाख्यान- मिदमुक्तम् । विश्वामित्रो पैजवनः सुदासस्य राज्ञः पुरोहित आसीत् । स राज्ञः सकाशात् बहूनि धनान्यादाय शतद्रु-विपाशवसङ्गममुपाययौ । तरणमार्गमनालक्ष्य नदीस्तुष्टाव । पूर्वं प्रत्याख्याय पश्चात् ताभिर्मार्गो दत्तः । अत्रापि अस्मच्छब्दार्थैः कुशिकपुत्र एव, न सर्वे उच्चारयितारः । एवम्- [L1