भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 78, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 78

१३२ वेदस्वरूप-विमर्शः स्वस्या एकस्यै वेदः स्वकीयां तनुं विसस्रे, वेदार्थप्रकाशनक्षमं सम्यग्ज्ञान- मनया तृतीयपादरूपया वाचा । चतुर्थपादतात्पर्यं दर्शयति--उत्तोत्तमया वाचा जायेव पत्ये कामयमाना सुवासा ऋतुकालेषु सुवासाः कल्याणवासाः कामयमाना ऋतुकालेषु यथा एनां पश्यति, स शृणोतीति अर्थज्ञप्रशंसा । अर्थादुत्तमया चतुर्थपादरूपया वाचा तृतीयपदार्थस्य उपमोच्यते । उशती कामय- माना यद्यपि गृहकृत्यवेलायां मलिनवासाः, तथापि सम्भोगकाले सुवासा भवति । यथा स एनां साङ्कल्पेनऽऽदरयुक्तः पश्यति, तथोक्तमर्थं हितबुद्ध्या शृणोति तथायं चतुर्दशविद्यास्थानपरिशीलनोपेतः पुरुषो वेदार्थरहस्यं सम्यक् पश्यति । वेदोक्तञ्च धर्मब्रह्मरूपमर्थं हितबुद्ध्या स्वीकरोति । सेयं वेदार्थोभिज्ञस्य प्रशंसा । अन्योऽपि मन्त्रो यास्केन तदर्थवैशद्याय उदाहृतः-- 'उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु । अधेन्वा चरति माययैषा वाचं शुश्रुवामफलामपुष्पाम् ॥' इति पूर्वोक्तस्यार्थस्य भूयसे निर्वचनाय । अपि च--एकं चतुर्दशविद्यास्थानकुशलं पुरुषं वेदरूपाया वाचः सख्ये स्थित्वा स्थैर्यं वेदोक्तार्थामृतपानयुक्तमाहुः अभिज्ञाः कथयन्ति । सखिविदं सखायः । यद्वा स्वर्गलोके वेदानां सख्ये स्थित्वा अतिशयेन पीतामृतमाहुः । वाग्मिना ईश्वरा सभासु प्रागल्भ्यवर्जितास्तेषु मध्ये- ऽप्येनं वेदार्थकुशलं चोदयितुं न हिन्वन्ति न केऽपि प्राप्नुवन्ति, तेन सह विवदितुमसमर्थत्वात् । यस्तु अन्यः पाठमात्रपरः पुष्पफलरहितो वाचं शुश्रुवान् भवति । पूर्वकाण्डोक्तस्य धर्मस्य ज्ञानं पुष्पम्, उत्तरकाण्डोक्तस्यार्थस्य ज्ञानं फलम् । यथा लोके पुष्पं फलोत्पादकं तथा वेदानुवचनादिधर्मज्ञानमनुष्ठानद्वारा फलज्ञात्मकब्रह्मज्ञानेच्छां जनयति । 'तमेतमात्मानं ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' इत्यादिश्रवणात् । यथा फलं तृप्तिहेतुस्तथैव ब्रह्मज्ञानं कृतकृत्यत्वहेतु- रिति भावः ।

वेदस्वरूप-विमर्शः १३३ यदपि समुपस्थापितम्--"वर्णसमुदाये वेदवादिनः पण्डितम्मन्यान् निन्दन्ती श्रुतिराह-- 'ऋचोऽक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत् तद्विदुस्त इमे समासते ॥' ( ऋ० सं० १।१६४।३६ ) एतच्च शब्दरूपं भङ्ग्यैव वेदस्वरूपमिति सिद्धान्तः" इति । तदपि न स्वेष्ट- साधकम् ; शब्दसामान्यस्यैव शब्दब्रह्मरूपत्वे शब्दविशेषभूतानां वेदाना- मपि तत्त्वे विशेषाभावात् । ऋचः ऋग्वेदाः। ऋच इति यजुःसामाथर्वा- ऽऽङ्गिरसामुपलक्षणम् । सर्वे वेदाः परमे व्योमन् परमात्माकाशरूपेऽक्षरे पर्यवसिताः, 'सर्वे वेदा यत्पदमामनन्ति' 'वेदैश्च सर्वैरहमेव वेद्यः' इति श्रुतिस्मृतिभ्याम् । यस्मिन्नधि विश्वेदेवा निषेदुः तस्मिन्नेव वेदानां पर्य- वसानम् । यस्तद् वेदतात्पर्यविषयीभूतं ब्रह्म न वेद न विजानाति किमृचा किमृग्वेदादिभिः करिष्यति ? वेदतात्पर्यविषयीभूतपरमात्मविज्ञानेनैव वेदाध्ययनं फलवद्भवति । अर्थज्ञानहीनवेदाध्ययनं प्रत्यवत्वापनोदन- फलकमेव भवति । ऋचः ब्रह्माधिकरणिकाः प्रसिद्धवेदविलक्षणाः । शब्दब्रह्मरूपता तु समेषां शब्दानां समानैव । किं बहुना, परंब्रह्मरूपताऽपि सर्वस्य शब्दकार्यात्मकस्य प्रपञ्चस्यापि 'अत्र वेदा अवेदा भवन्ती'ति श्रुतेः । कारणाभावमुपगतानां वेदानां परमात्मभावत्वेन अवेदत्वमेव, मृद्भावोपगतानां घटादीनामघटत्वादिकमिवेत्यर्थः । न च शब्दब्रह्माभाव- मुपगतानामपि वेदानां वेदत्वं सूक्ष्मरूपेण भवत्येवेति वाच्यम्; अविकारशब्दानामपि तथात्वाविशेषात् । अत एव सायणाचार्यैर्व्याख्यातम्-ऋचोऽक्षरेति । अत्र ऋक्शब्देन या ऋक्प्रधानभूताः साङ्गाः परविद्यात्मकाश्चत्वारो वेदा उच्यन्ते । ऋचः सम्बन्धिनि अजरे क्षरणरहिते अष्टशब्दादिगुणके नित्ये परमे उत्कृष्टे, व्योमन् व्योमसदृशे अलेपत्व नीरूपत्व व्याप्यपित्वसादृश्येन व्योमेत्युक्तम् । यद्वा- विशेषेण सर्वस्य रक्षके, विपूर्वस्य अवतेर्धातोरर्थानुगमात् स्वाध्यस्तस्य सर्वस्य रक्षकत्वात् सत्तास्फूर्तिप्रदत्वेन सर्वत्र व्याप्ते ब्रह्मणि प्रतिपाद्य-