वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 78, कुल 237 में से
संदर्भ में पढ़ें१३२ वेदस्वरूप-विमर्शः स्वस्या एकस्यै वेदः स्वकीयां तनुं विसस्रे, वेदार्थप्रकाशनक्षमं सम्यग्ज्ञान- मनया तृतीयपादरूपया वाचा । चतुर्थपादतात्पर्यं दर्शयति--उत्तोत्तमया वाचा जायेव पत्ये कामयमाना सुवासा ऋतुकालेषु सुवासाः कल्याणवासाः कामयमाना ऋतुकालेषु यथा एनां पश्यति, स शृणोतीति अर्थज्ञप्रशंसा । अर्थादुत्तमया चतुर्थपादरूपया वाचा तृतीयपदार्थस्य उपमोच्यते । उशती कामय- माना यद्यपि गृहकृत्यवेलायां मलिनवासाः, तथापि सम्भोगकाले सुवासा भवति । यथा स एनां साङ्कल्पेनऽऽदरयुक्तः पश्यति, तथोक्तमर्थं हितबुद्ध्या शृणोति तथायं चतुर्दशविद्यास्थानपरिशीलनोपेतः पुरुषो वेदार्थरहस्यं सम्यक् पश्यति । वेदोक्तञ्च धर्मब्रह्मरूपमर्थं हितबुद्ध्या स्वीकरोति । सेयं वेदार्थोभिज्ञस्य प्रशंसा । अन्योऽपि मन्त्रो यास्केन तदर्थवैशद्याय उदाहृतः-- 'उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु । अधेन्वा चरति माययैषा वाचं शुश्रुवामफलामपुष्पाम् ॥' इति पूर्वोक्तस्यार्थस्य भूयसे निर्वचनाय । अपि च--एकं चतुर्दशविद्यास्थानकुशलं पुरुषं वेदरूपाया वाचः सख्ये स्थित्वा स्थैर्यं वेदोक्तार्थामृतपानयुक्तमाहुः अभिज्ञाः कथयन्ति । सखिविदं सखायः । यद्वा स्वर्गलोके वेदानां सख्ये स्थित्वा अतिशयेन पीतामृतमाहुः । वाग्मिना ईश्वरा सभासु प्रागल्भ्यवर्जितास्तेषु मध्ये- ऽप्येनं वेदार्थकुशलं चोदयितुं न हिन्वन्ति न केऽपि प्राप्नुवन्ति, तेन सह विवदितुमसमर्थत्वात् । यस्तु अन्यः पाठमात्रपरः पुष्पफलरहितो वाचं शुश्रुवान् भवति । पूर्वकाण्डोक्तस्य धर्मस्य ज्ञानं पुष्पम्, उत्तरकाण्डोक्तस्यार्थस्य ज्ञानं फलम् । यथा लोके पुष्पं फलोत्पादकं तथा वेदानुवचनादिधर्मज्ञानमनुष्ठानद्वारा फलज्ञात्मकब्रह्मज्ञानेच्छां जनयति । 'तमेतमात्मानं ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' इत्यादिश्रवणात् । यथा फलं तृप्तिहेतुस्तथैव ब्रह्मज्ञानं कृतकृत्यत्वहेतु- रिति भावः ।
वेदस्वरूप-विमर्शः १३३ यदपि समुपस्थापितम्--"वर्णसमुदाये वेदवादिनः पण्डितम्मन्यान् निन्दन्ती श्रुतिराह-- 'ऋचोऽक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत् तद्विदुस्त इमे समासते ॥' ( ऋ० सं० १।१६४।३६ ) एतच्च शब्दरूपं भङ्ग्यैव वेदस्वरूपमिति सिद्धान्तः" इति । तदपि न स्वेष्ट- साधकम् ; शब्दसामान्यस्यैव शब्दब्रह्मरूपत्वे शब्दविशेषभूतानां वेदाना- मपि तत्त्वे विशेषाभावात् । ऋचः ऋग्वेदाः। ऋच इति यजुःसामाथर्वा- ऽऽङ्गिरसामुपलक्षणम् । सर्वे वेदाः परमे व्योमन् परमात्माकाशरूपेऽक्षरे पर्यवसिताः, 'सर्वे वेदा यत्पदमामनन्ति' 'वेदैश्च सर्वैरहमेव वेद्यः' इति श्रुतिस्मृतिभ्याम् । यस्मिन्नधि विश्वेदेवा निषेदुः तस्मिन्नेव वेदानां पर्य- वसानम् । यस्तद् वेदतात्पर्यविषयीभूतं ब्रह्म न वेद न विजानाति किमृचा किमृग्वेदादिभिः करिष्यति ? वेदतात्पर्यविषयीभूतपरमात्मविज्ञानेनैव वेदाध्ययनं फलवद्भवति । अर्थज्ञानहीनवेदाध्ययनं प्रत्यवत्वापनोदन- फलकमेव भवति । ऋचः ब्रह्माधिकरणिकाः प्रसिद्धवेदविलक्षणाः । शब्दब्रह्मरूपता तु समेषां शब्दानां समानैव । किं बहुना, परंब्रह्मरूपताऽपि सर्वस्य शब्दकार्यात्मकस्य प्रपञ्चस्यापि 'अत्र वेदा अवेदा भवन्ती'ति श्रुतेः । कारणाभावमुपगतानां वेदानां परमात्मभावत्वेन अवेदत्वमेव, मृद्भावोपगतानां घटादीनामघटत्वादिकमिवेत्यर्थः । न च शब्दब्रह्माभाव- मुपगतानामपि वेदानां वेदत्वं सूक्ष्मरूपेण भवत्येवेति वाच्यम्; अविकारशब्दानामपि तथात्वाविशेषात् । अत एव सायणाचार्यैर्व्याख्यातम्-ऋचोऽक्षरेति । अत्र ऋक्शब्देन या ऋक्प्रधानभूताः साङ्गाः परविद्यात्मकाश्चत्वारो वेदा उच्यन्ते । ऋचः सम्बन्धिनि अजरे क्षरणरहिते अष्टशब्दादिगुणके नित्ये परमे उत्कृष्टे, व्योमन् व्योमसदृशे अलेपत्व नीरूपत्व व्याप्यपित्वसादृश्येन व्योमेत्युक्तम् । यद्वा- विशेषेण सर्वस्य रक्षके, विपूर्वस्य अवतेर्धातोरर्थानुगमात् स्वाध्यस्तस्य सर्वस्य रक्षकत्वात् सत्तास्फूर्तिप्रदत्वेन सर्वत्र व्याप्ते ब्रह्मणि प्रतिपाद्य-