भारतकोश
वेदान्त परिभाषा (गजानन शास्त्री मुसलगांवकर हिन्दी व्याख्या सहित)

वेदान्त परिभाषा (गजानन शास्त्री मुसलगांवकर हिन्दी व्याख्या सहित)

Vedanta Paribhasha Hindi

धर्मराजाध्वरीन्द्र द्वारा

स्रोत: Vedanta Paribhasha with Hindi Commentary by Pt. Gajanan Shastri Musalgaonkar (उद्गम)

DevanagariHindipublished482 पृष्ठ

पृष्ठ 245, कुल 482 में से

संदर्भ में पढ़ें
पृष्ठ 245

अथ आगमपरिच्छेदः ४

उपमान प्रमाण का निरूपण करने के अनन्तर अब क्रमप्राप्त आगम प्रमाण (शब्द प्रमाण) के निरूपण की प्रतिज्ञा करते हैं।

'अथागमो निरूप्यते । यस्य² वाक्यस्य तात्पर्यविषयीभूतसंसर्गो


१. उपमानप्रमाणनिरूपणानन्तरमद्वैतब्रह्मसाक्षात्कारानुकूलमागमप्रमाणनिरूपणाय 'अथागम' इत्यादिग्रन्थः प्रतिज्ञापरः । 'आ सम्यग् गम्यते ज्ञायते अर्थः अनेन' इत्यागमो वाक्यविशेषः । स एव प्रमाणम् ।

वैशेषिकादयः प्रत्यक्षाऽनुमाने द्वे एव प्रमाणे इति वदन्ति । तेषां मते शब्दस्य अनुमानविधया प्रामाण्यमभ्युपगम्यते । तेषामाशयः श्लोकवार्त्तिककारेणोपवर्णितः शब्दानुमानयोरैक्यम्०' इत्यादिभिः ४१६ तमे पृष्ठे पञ्चमसूत्रगते व्याख्याने ( ३५, ३६, ३७,) त्रिभिः श्लोकैः । तदनन्तरं मतमिदं वार्त्तिककारैरेव सम्यगपाकृतम् । वार्त्तिककारचरणाः कथयन्ति — शब्दो न अनुमानविधया अर्थप्रत्यायकः । अनुमाने हि पक्षः, पक्षधर्मः सपक्षान्वयः, विपक्षव्यतिरेकश्च अपेक्षिता भवन्ति । शब्दे चतुष्टयमपि नैतद्विद्यते । यदि अत्र वाक्यं पक्षः, अर्थवृत्तित्वं साध्यं, वाक्यमेव हेतुः (वाक्यम् अर्थवृत्ति वाक्यत्वात् ), तर्हि पक्षहेत्वोरैक्यम् । तदर्थं यदि अर्थो धर्मी पक्षः तर्हि शब्दस्य आकाशवृत्तेः अर्थेन सम्बन्धाऽभावात् न हेतोः पक्षवृत्तित्ता संभवति । एतेन सपक्षान्वयरूपा व्याप्तिरपि नास्ति, इति सूच्यते, विपक्षव्यतिरेकस्तु न भवत्येव, युधिष्ठिराद्यर्थाभावेऽपि शब्दसत्त्वात् । अतः 'शब्दः' अतिरिक्तम्प्रमाणम् । यथा हि धूमाग्न्योः सम्बन्धग्रहे सत्येव धूमेन अग्नेरनुमानं भवति, तथा वाक्यस्य वाक्यार्थेन सम्बन्धग्रहे सत्यवे वाक्यार्थज्ञानं भवतीति न नियमः । यद्यपि अन्विताभिधानमते वाक्यार्थेऽपि वाक्यस्य शक्तिरिष्यते, तथापि सा स्वरूपसती एव वाक्यार्थं गमयति, न तु तद्ग्रहस्तत्र कारणम् । एतेन अभिहितान्वयवादोऽपि व्याख्यातः । तत्रापि पदार्थनिष्ठायाः स्वरूपसत्याः एव शक्तेः वाक्यार्थानुभावकत्वात् । व्याप्त्यादिज्ञानं विनापि शब्दबोधस्य आनुभविकत्वात् वैशेषिकमतं प्रत्युक्तं भवति । तदुक्तं शब्दशक्तिप्रकाशिकायाम्—"साकांक्षशब्दैर्यो बोधः तदर्थान्वयगोचरः । सोऽयं नियन्त्रितार्थत्वान्न प्रत्यक्षं न चानुमा ॥" इति । तदुक्तं श्लोकवार्तिके—पृ० ४२२ । ५ सूत्रे—६२½, ६८½, ६९½, ७०½, ७१, ७२, ७३½, ७७, ८२½, ८६, ९७½, १०९ । पृ० ४३० यावत् ।

यथा—

"अथ शब्दोऽर्थवत्त्वेन पक्षः कस्मान्न कल्प्यते ।
प्रतिज्ञाऽर्थैकदेशो हि हेतुस्तत्र प्रसज्यते ॥" इत्यादिभिः ।

,तथा च आगमोऽपि प्रमाणमेव । ननु शब्द प्रमाणनिरूपणस्य वेदान्तिनो मते कि