वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)
Vedantasara of Sadananda with Hindi Commentary
सदानन्द योगीन्द्र द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 199, कुल 314 में से
संदर्भ में पढ़ेंसूक्ष्मशरीर निरूपण १८५ सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि। अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमन्सी कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति। ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि। एतान्याकाशादीनां सात्त्विकांशेभ्योः व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते। बुद्धिर्नाम नि श्रयात्मिकान्तःकरणवृत्तिः। मनो नाम सङ्कल्पविकल्पात्मिकान्तः- करणवृत्तिः। अनयोरेव चित्ताहङ्कारयोरन्तर्भावः। एते पुनराकाशादिगतसात्त्विकांशेभ्यो मिलितेभ्य उत्पद्यन्ते। एतेषां प्रकाशात्मकत्वात्सात्त्विकांशकार्यत्वम्। इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति। अयं कर्तृत्वभोक्तृत्व- सुखित्वदुःखित्वाद्य- भिमानत्वेनेहलोकपरलोकगामी व्यावहारिको जीव इत्युच्यते। मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति। पदच्छेद- सूक्ष्मशरीराणि सप्तदश-अवयवानि लिङ्गशरीराणि। अवयवाः तु ज्ञानेन्द्रियपञ्चकम्, बुद्धिमन्सी, कर्मेन्द्रियपञ्चकम्, वायुपञ्चकम् च इति। ज्ञानेन्द्रियाणि श्रोत्र-त्वक्-चक्षुः-जिह्वा-घ्राण-आख्यानि। एतानि आकाश-आदीनाम् सात्त्विक-अंशेभ्यः व्यस्तेभ्यः पृथक्-पृथक् क्रमेण उत्पद्यन्ते। बुद्धिः नाम निश्चयात्मिका अन्तःकरणवृत्तिः। मनः नाम सङ्कल्प-विकल्पात्मिका अन्तःकरणवृत्तिः। अनयोः एव चित्त-अहङ्कारयोः अन्तर्भावः। एते पुनः आकाश-आदिगत-सात्त्विक-अंशेभ्यः मिलितेभ्यः उत्पद्यन्ते। एतेषाम् प्रकाशात्मकत्वात् सात्त्विकांश-कार्यत्वम्। इयम् बुद्धिः ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशः भवति। अयम् कर्तृत्व- भोक्तृत्व - सुखित्वद् - दुःखित्व - आदिअभिमानत्वेन इहलोक-परलोकगामी व्यावहारिकः जीव इत्युच्यते। मनः तु ज्ञानेन्द्रियैः सहितम् सत् मनोमयकोशः भवति। अनुवाद-सत्रह अवयवों से युक्त सूक्ष्मशरीर ही लिङ्गशरीर है। पञ्चज्ञानेन्द्रियाँ, बुद्धि एवं मन, पञ्चकर्मेन्द्रियाँ तथा पञ्चवायु ही इसके अवयव हैं। श्रोत्र, त्वक्, चक्षुः जिह्वा और घ्राण नामक (पाँच) ज्ञानेन्द्रियाँ हैं। ये आकाश आदि (सूक्ष्मभूतों) के सात्त्विक-अंशों से क्रमशः अलग-अलग उत्पन्न होते हैं। निश्चय करने वाली अन्तःकरण की वृत्ति ही बुद्धि है। सङ्कल्प-विकल्प करने वाली अन्तःकरण की वृत्ति वस्तुतः मन है। इन दोनों में ही चित्त और