भारतकोश
वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

Vedantasara of Sadananda with Hindi Commentary

सदानन्द योगीन्द्र द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished314 पृष्ठ

पृष्ठ 210, कुल 314 में से

संदर्भ में पढ़ें
पृष्ठ 210

१९६ वेदान्तसार विज्ञानमयादिकोशत्रयं जाग्रद्वासनामयत्वात्स्वप्नोऽत एव स्थूलशरीरलयस्थानमिति चोच्यते। एतौ सूत्रात्मतैजसौ तदानीं मनोवृत्तिभिः सूक्ष्मविषयाननुभवतः ‘प्रविविक्तभुक्तैजस’ इत्यादिश्रुतेः। अत्रापि समष्टिव्यष्ट्योस्तदुपहितसूत्रात्म- तैजसयोर्वनवृक्षवत्तदवच्छिन्नाकाशवच्च जलाशयजलवत्तद् तप्रतिबिम्बा- काशवच्चाभेदः। एवं सूक्ष्मशरीरोत्पत्तिः॥१४॥ पदच्छेद-अत्र अपि अखिलसूक्ष्मशरीरम् एकबुद्धिविषयतया वनवत् जलाशयवत् वा समष्टिः अनेकबुद्धि-विषयतया वृक्षवत् जलवत् वा व्यष्टिः अपि भवति। एतत् समष्टि उपहितम् चैतन्यम् सूत्रात्मा, हिरण्यगर्भः प्राणः च इति उच्यते। सर्वत्र अनुस्यूतत्वात् ज्ञानेच्छा-क्रिया शक्तिमद् उपहितत्वात् च अस्य एषा समष्टिः स्थूलप्रपञ्च-अपेक्षया सूक्ष्मत्वात् सूक्ष्मशरीरम्, विज्ञानमयादि कोशत्रयम् जाग्रद् वासनामयत्वात् स्वप्नः, अत एव स्थूल-प्रपञ्चलयस्थानम् इति च उच्यते। एतद् व्यष्टि-उपहितम् चैतन्यम् तेजसः भवति, तेजोमय-अन्तःकरण-उपहितत्वात्। अस्य अपि इयम् व्यष्टिः स्थूलशरीर-अपेक्षया सूक्ष्मत्वाद् इति हेतोः एव सूक्ष्मशरीरम्, विज्ञानमयादि कोशत्रयम्, जाग्रद्वासनामयत्वात् स्वप्नः अतः एव स्थूलशरीर-लयस्थानम् इति च उच्यते। एतौ सूत्रात्मतेजसौ तदानीम् मनोवृत्तिभिः सूक्ष्मविषयान् अनुभवतः ‘प्रविविक्तभुक् तेजसः’ इत्यादि श्रुतेः। अत्र अपि समष्टि-व्यष्ट्योः तद् उपहित-सूत्रात्मतैजसयोः वनवृक्षवत् तद् अवच्छिन्न-आकाशवत् च जलाशय-जलवत् तद्गत-प्रतिबिम्ब-आकाशवत् च अभेदः। एवम् सूक्ष्मशरीरोत्पत्तिः।।14।। अनुवाद-यहाँ भी सम्पूर्ण चराचर के सूक्ष्मशरीर, एकत्व के ज्ञान का विषय होने से वन अथवा जलाशय के समान समष्टि एवं अनेकत्व के ज्ञान का विषय होने से वृक्ष अथवा जल के समान व्यष्टि वाला भी होता है। इस समष्टि से उपहित चैतन्य सर्वत्र व्याप्त होने तथा ज्ञान, इच्छा एवं क्रियाशक्ति से सम्पन्न होने के कारण (क्रमशः) सूत्रात्मा, हिरण्यगर्भ और प्राण इसप्रकार कहा जाता है। इसकी यह समष्टि स्थूलप्रपञ्च की अपेक्षा सूक्ष्म होने के कारण ‘सूक्ष्म-शरीर’, विज्ञानमय आदि कोशत्रय से युक्त, जाग्रत् अवस्था में