भारतकोश
वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)

Vedantasara of Sadananda with Hindi Commentary

सदानन्द योगीन्द्र द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished314 पृष्ठ

पृष्ठ 231, कुल 314 में से

संदर्भ में पढ़ें
पृष्ठ 231

चार्वाकादिमत-निराकरण २१७

पदच्छेद- इदानीम् प्रत्यग् आत्मनि इदम्-इदम्, अयम्-अयम् आरोपयंति, इति विशेषतः उच्यते- (1) अतिप्राकृतः तु-“आत्मा वै जायते पुत्रः” इत्यादि श्रुतेः, स्वस्मिन् इव स्वपुत्रे अपि प्रेमदर्शनात् पुत्रे पुष्टे नष्टे च अहम् एव पुष्टः नष्टः च इत्यादि अनुभवात् च पुत्रः आत्मा इति वदति। (2) चार्वाकः तु-“सः वै एष पुरुषः अन्नरसमयः” इत्यादि श्रुतेः। प्रदीप्तगृहात् स्वपुत्रम् परित्यज्य अपि स्वस्य निर्गमदर्शनात्, स्थूलः अहम्, कृशः अहम् इत्यादि अनुभवात् च स्थूलशरीरम् आत्मा, इति वदति। (3) अपरः चार्वाकः “ते ह प्राणाः प्रजापतिम् पितरम् एत्य ब्रूयुः” इत्यादि श्रुतेः, इन्द्रियाणाम् अभावे शरीरचलनाभावात्, काणः अहम्, बधिरः अहम्, इत्यादि अनुभवात् च इन्द्रियाणि आत्मा, इति वदति। (4) अपरः चार्वाकः “अन्यः अन्तरः आत्मा प्राणमयः” इत्यादि श्रुतेः, प्राण-अभावे इन्द्रियादि-चलन-अयोगाद्, अहम् अशनायावान्, अहम् पिपासावान् इत्यादि अनुभवात् च प्राणाः आत्मा इति वदति। (5) अन्यः तु चार्वाकः “अन्यः अन्तरः आत्मा मनोमयः” इत्यादि श्रुतेः, मनसि सुप्ते प्राणादेः अभावाद् अहम् सङ्कल्पवान्, अहम् विकल्पवान् इत्यादि अनुभवात् च मनः आत्मा इति वदति। (6) बौद्धः तु “अन्यः अन्तर आत्मा विज्ञानमयः” इत्यादि श्रुतेः, कर्तुः अभावे करणस्य शक्ति-अभावात्, अहम् कर्ता, अहम् भोक्ता, इत्यादि अनुभवात् च बुद्धिः आत्मा इति वदति। (7) प्राभाकरतार्किकौ तु “अन्यः अन्तरः आत्मा आनन्दमयः” इत्यादि श्रुतेः बुद्धि-आदीनाम् अज्ञाने लयदर्शनात् अहम् अज्ञः, अहम् अज्ञानी, इत्यादि अनुभवात् च अज्ञानम् आत्मा इति वदतः। (8) भाट्टः तु “प्रज्ञानघन एव आनन्दमयः” इत्यादि श्रुतेः, सुषुप्तौ प्रकाश-अप्रकाश-सद्भावात् माम् अहम् न जानामि, इत्यादि अनुभवात् च अज्ञान-उपहितम् चैतन्यम् आत्मा, इति वदति। (9) अपरः बौद्धः “असद् एव इदम् अग्रे आसीत्” इत्यादि श्रुतेः, सुषुप्तौ सर्व-अभावाद् ‘अहम् सुषुप्तौः न आसम्’ इति उत्थितस्य स्व-अभावपरामर्श-विषय-अनुभवात् च शून्यम् आत्मा इति वदति।।19।।