वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)
Vedantasara of Sadananda with Hindi Commentary
सदानन्द योगीन्द्र द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 230, कुल 314 में से
संदर्भ में पढ़ें२१६ वेदान्तसार अवतरणिका-इसप्रकार अज्ञान के कारण चैतन्य में प्रतिभासित होने वाले सम्पूर्ण जगत्प्रपञ्च के विकास की समष्टिव्यष्टिविषयक मान्यताओं एवं उनमें ऐक्य का प्रतिपादन करने के पश्चात् आत्माविषयक अनेक प्रकार की भ्रान्तधारणाओं का निराकरण तथा श्रुति में उनके विषय में वर्णित औचित्य के विषय में कहते हैं- इदानीं प्रत्यगात्मनीदमिदमयमयमारोपयतीति विशेषत उच्यते। अतिप्राकृतस्तु “आत्मा वै जायते पुत्र” इत्यादिश्रुतेः स्वस्मिन्निव स्वपुत्रेऽपि प्रेमदर्शनात्पुत्रे पुष्टे नष्टे चाहमेव पुष्टो नष्टश्चेत्याद्यनुभवाच्च पुत्र आत्मेति वदति। चार्वाकस्तु “स वा एष पुरुषोऽन्नरसमय” इत्यादिश्रुतेः प्रदीप्तगृहात्स्वपुत्रं परित्यज्यापि स्वस्य निर्गमदर्शनात्स्थूलोऽहं कृशोऽहमित्याद्यनुभवाच्च स्थूलशरीरमात्मेति वदति। अपरश्चार्वाकः “ते ह प्राणाः प्रजापतिं पितरमेत्य ब्रूयुः” इत्यादिश्रुतेरिन्द्रियाणामभावे शरीरचलनाभावात्काणोऽहं बधिरोऽहमित्याद्यनुभवाच्चेन्द्रियाण्यात्मेति वदति। अपरश्चार्वाकः “अन्योऽन्तर आत्माप्राणमय” इत्यादिश्रुतेः प्राणाभाव इन्द्रियादिचलनायोगादहमशनायावानहं पिपासावानित्याद्यनुभवाच्च प्राण आत्मेति वदति। अन्यस्तु चार्वाकः “अन्योऽन्तर आत्मा मनोमय” इत्यादिश्रुतेर्मनसि सुप्ते प्राणादेरभावादहं सङ्कल्पवानहं विकल्पवानित्याद्यनुभवाच्च मन आत्मेति वदति। बौद्धस्तु “अन्योऽन्तर आत्मा विज्ञानमय” इत्यादिश्रुतेः कर्तुरभावे करणस्य शक्त्यभावादहं कर्ताहं भोक्तेत्याद्यनुभवाच्च बुद्धिरात्मेति वदति। प्राभाकरतार्किकौ तु “अन्योऽन्तर आत्मानन्दमय” इत्यादिश्रुते- र्बुद्ध्यादीनामज्ञाने लयदर्शनदहमज्ञोऽहमज्ञानीत्याद्यनुभवाच्चाज्ञानमात्मेति वदतः। भाट्टस्तु “प्रज्ञानघन एवानन्दमय” इत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्भावान्मामहं न जानामीत्याद्यनुभवाच्चाज्ञानोपहितं चैतन्यमात्मेति वदति। अपरो बौद्धः “असदेवेदमग्र आसीत्” इत्यादिश्रुतेः सुषुप्तौ सर्वाभावादहं सुषुप्तौ नासमित्युत्थितस्य स्वाभावपरामर्शविषयानुभवाच्च शून्यमात्मेति वदति॥१९॥