वेदान्तसार (सदानन्द योगीन्द्र - विद्वन्मनोरञ्जनी व हिन्दी व्याख्या सहित)
Vedantasara of Sadananda with Hindi Commentary
सदानन्द योगीन्द्र द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 239, कुल 314 में से
संदर्भ में पढ़ेंअपवाद-निरूपण २२५ अतत्त्वतोऽन्यथाप्रथा विवर्त इत्युदीरित" इति॥ तथाहि। एतद्भोगायतनं चतुर्विधसकलस्थूलशरीरजातं भोग्यरूपान्न- पानादिकमेतदायतनभूतभूरादिचतुर्दशभुवनान्येतदायतनभूतं ब्रह्माण्डं चैतत्सर्वमेतेषां कारणरूपं पञ्चीकृतभूतमात्रं भवति। एतानि शब्दादिविषयसहितानि पञ्चीकृतानि भूतानि सूक्ष्मशरीरजातं चैतत्सर्वमेतेषां कारणरूपापञ्चीकृतभूतमात्रं भवति। एतानि सत्त्वादिगुणसहितान्यपञ्चीकृतान्युत्पत्तिव्युत्क्रमेणैत्कारण- भूताज्ञानोपहितचैतन्यमात्रं भवति। एतदज्ञानमज्ञानोपहितं चैतन्यं चेश्वरादिकमेतदाधारभूतानुपहितचैतन्यरूपं तुरीयं ब्रह्ममात्रं भवति॥२१॥ पदच्छेद- अपवादः नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद्, वस्तुविवर्तस्य अवस्तुनः अज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम्। तद् उक्तम्- “सतत्त्वतः अन्यथा प्रथा विकारः इति 'उदीरितः। अतत्त्वतः अन्यथा प्रथा विवर्तः इति उदीरितः॥इति॥ तथाहि, एतद् भोगायतनम् चतुर्विध-सकल-स्थूल-शरीरजातम् भोग्यरूप-अन्नपानादिकम्, एतद् आयतनभूत-भूः आदि चतुर्दश-भुवनानि, एतद्-आयतनभूतम् ब्रह्माण्डम् च एतत् सर्वम्, एतेषाम् कारणरूपम् पञ्चीकृतभूतमात्रम् भवति। एतानि शब्द-आदि विषयसहितानि पञ्चीकृतानि भूतानि सूक्ष्मशरीर-जातम् च एतत् सर्वम् एतेषाम् कारणरूप-अपञ्चीकृतभूतमात्रम् भवति। एतानि सत्त्वादि-गुण-सहितानि अपञ्चीकृतानि उत्पत्तिव्युत्क्रमेण एतत् कारणभूत-अज्ञान-उपहितचैतन्यमात्रम् भवति। एतद् अज्ञानम् अज्ञानोपहितम् चैतन्यम् च ईश्वरादिकम्, एतद् आधारभूत-अनुपहितचैतन्यरूपम् तुरीयम् ब्रह्ममात्रम् भवति॥२१॥ अनुवाद- रस्सी में भ्रान्तिवश प्रतीत होने वाले सर्प की पुनः रस्सीमात्र के रूप में प्रतीति के समान, ब्रह्मरूप वस्तु में मिथ्याप्रतीति के कारण अवस्तुरूप अज्ञानादिप्रपञ्च में, पुनः ब्रह्मरूप सत्यवस्तु का भान होना ही वस्तुतः अपवाद है। इसीलिए कहा है- “अपने मूलरूप का परित्याग करके अन्यरूप को ग्रहण करना ही 'विकार' इसप्रकार कहा गया है। अपने रूप को बिना छोड़े अन्य वस्तु की मिथ्याप्रतीति 'विवर्त' ऐसा कहलाता है।" क्योंकि सुख-दुःखरूप भोग का स्थानरूप ये, उत्पन्न हुए सभी चार प्रकार के स्थूलशरीर, भोग्यरूप अन्न-पान आदि, इसके आयतनभूत भूः