वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 102, कुल 145 में से
संदर्भ में पढ़ें( १०२ ) वेदान्तसार । दुक्तम्-“बुद्धितत्स्थचिदाभासौ द्वावपि व्यापृतो घटं।तत्राज्ञानं धिया नश्येदाभासेन घटं स्फुरेत्” इति। यथा प्रदीपप्रभा मण्डलमन्धकारगतं घटा- दिकं विषयीकृत्य तद्गतान्धकारनिरसनपुरःसरं स्वप्रभया तदवभासयतीति ॥ ८८ ॥ (सं०टी०) इदानीं जडपदार्थविषयकचित्तवृत्तेर्ब्रह्माका- रवृत्त्यपेक्षया वैलक्षण्यं दर्शयितुमाह । जडपदार्थेति । अहं ब्रह्मास्मीत्यज्ञानावच्छिन्नब्रह्माकारा चित्तवृत्तिस्तदावर- कमज्ञानमात्रं निवर्तयति। ब्रह्म तु स्वप्रकाशात्मत्वात्स्वयमेव प्र- काशते न तु वृत्तिप्रतिबिंबितचिदाभासेन चैतन्यं प्रकाश्यते तत्र तस्यासामर्थ्यात् । अयं घट इति घटाकाराकारितचित्त वृत्तिस्तु घटावच्छिन्नचैतन्यावरकमज्ञानं निवर्त्य निवर्तमा- ना स्वप्रतिबिंबितचिदाभासेन जडं घटमपि प्रकाशयति।अतः ततो विशेषोस्तीत्यर्थः । एतदेव प्रपंचयितुं प्रतिजानीते । त- थाहीति । जडपदार्थविषयिणीं चित्तवृत्तिमभिनीय दर्शयति । अयमिति । वृत्तिसंबंधात्प्राग्घटस्याज्ञातत्वात् अज्ञातं घटं वि- षयीकृत्य प्रवृत्ताचित्तवृत्तिर्घटगताज्ञानं दूरीकुर्वाणा घटमपि भासयतीत्यर्थः । अस्मिन्नर्थे वृद्धसंमतिमाह । तदुक्तमिति । बुद्धिश्च तत्र बुद्धौ प्रतिबिंबितचिदाभासश्च बुद्धितत्स्थचिदा- भासौ द्वावेतौ बुद्धिचिदाभासौ घटं व्यापृतः । तत्र तयोर्मध्ये धिया वृत्त्या घटाज्ञानं नश्येच्चिदाभासेन तु घटः स्फुरेदित्यर्थः । अत्रानुरूपं दृष्टांतमाह । यथेति । यथांधकारावस्थितघटादिकं