वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 114, कुल 145 में से
संदर्भ में पढ़ें( ११४ ) वेदान्तसार । अवस्थासे और निर्विकल्पक समाधि अवस्थामें वृत्तिज्ञान की अभाव अंशमें समानता होनेपर भी वृत्तिकी सत्ता और सत्ताद्वारा समाधि और सुषुप्तिका भेद है ॥ ९२ ॥ अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहार- धारणाध्यानसमाधयः । तत्राहिंसासत्यास्तेयब्रह्म- चर्यापरिग्रहा यमाः । शौचसन्तोषतपःस्वाध्याये- श्वरप्रणिधानानि नियमाः । करचरणादिसंस्थान- विशेषलक्षणानि पद्मस्वस्तिकादीनि आसनानि । रेचकपूरककुम्भकलक्षणाः प्राणनिग्रहोपायाः प्राणा- यामाः । इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्याहारः । अद्वितीयवस्तुन्यन्तरिन्द्रिधारणं धारणा । तत्र द्वितीयवस्तुनि विच्छिद्यविच्छिद्य- अन्तरिन्द्रियवृत्तिप्रवाहः ध्यानम् । समाधिस्तु उक्तः सविकल्पक एव ॥ ९३ ॥ ( सं०टी०) उक्तसमाधेः साधनापेक्षायामाह । अस्येति । तानि च साधनानि क्रमेणोद्दिशति । यमेति । यमाद्यष्टांगानि समाधेरंतरंगसाधनानीत्यर्थः। प्रथमं यमस्य लक्षणमाह । तत्रेति तेषु यमाद्यष्टांगेषु मध्ये अहिंसादयः पंच यमा अवश्याः अनुष्ठे- या इत्यर्थः । तदनंतरं नियमानाह । शौचेति शौचादयः पंच नि यमा इत्यर्थः । आसनं लक्षयति । आसनानीति। करचरणादिसं स्थानविशेषलक्षणानि पद्मकस्वस्तिकादीनि आसनानि । प्रा- णायामलक्षणमाह । रेचकेति । “ ईडया पूरयेद्वायुं मुंचेद्दक्षि-