वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 115, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( ११५ ) णयानिलम् । यावच्छ्वासं समासीनः कुंभयेतं सुषुम्नया ” यदा योगी पद्मासने उपविश्य योगमभ्यस्यति तदा गुल्फाभ्यां गु- दमूलं निष्पीड्य खेचरीमुद्रासहायेन प्राणधारण्या सुषुम्ना- मार्गेण मूलाधारात्कुंडलिनीमुत्थाप्य स्वाधिष्ठानमणिपूरानाह- तविशुद्धाज्ञानिर्वाणाख्यषट्चक्रभेदक्रमेण सहस्रदलकमलक- र्णिकायां विद्यमानपरमात्मना सह प्राणं संयोज्य तत्रैव चित्तं निर्वांतदीपवन्निश्चलं कृत्वा स्वात्मानंदरसं पिबतीत्येतत्प्राणाया- मफलम्। स च द्विविधः अगर्भः सगर्भश्चेति“मुंचेद्दक्षिणया वायुं मात्राहीनमनन्यधीः। पूरयेद्वामया तद्वत्कुंभयेच्च सुषुम्नया॥ याव- च्छ्वासं जितश्वासो भवेन्मासाज्जितेन्द्रियः”इति वचनात् प्रण- वोच्चारणराहित्येनोक्तरेचकपूरककुंभकक्रमेण प्राणनिरोधोऽग- र्भप्राणायामः “रेचयेत् षोडशेनैव तद्द्वैगुण्येन पूरयेत् । कुंभयेच्च चतुःषष्ट्या प्रणवार्थमनुस्मरन्”इतिवचनात् षोडशप्रणवं म- नसा जपन्दक्षिणया वायुं विरेच्य द्वात्रिंशत्संख्याकप्रणवं मनसा समुच्चरन् वामया वायुमापूर्य चतुःषष्टिसंख्याकं प्रणवं मनसा जपंस्तदर्थंचअकारोकारमकारार्द्धमात्रात्मकसार्धत्रिमात्रात्मक सार्धत्रिवलयाकारकुंडलिनीरूपं चिदानंदकंदं च मूलाधारादि- ब्रह्मरंध्रांतमनुसंदधत्सुषुम्नया चित्तमपि तदेकप्रवणं कुर्वन् याव- च्छ्वासं कुंभयेत् । तदुक्तमाचार्यैः“षोडशतद्विगुणचतुष्षष्टिमा- त्राणि च क्रमशः ॥ रेचकपूरककुंभकभेदैः त्रिविधः प्रभंजनाया- मः”इति प्राणायामप्रकारः ॥ क्रमप्राप्तं प्रत्याहारं निरूपयति। इंद्रियाणामिति । श्रोत्रादीनामिंद्रियाणां स्वस्वविषयेभ्यः श-