भारतकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 118, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 118

( ११८ ) वेदान्तसार । निद्रा । अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेर- न्यवलम्बनं विक्षेपः । लयविक्षेपाभावेऽपि चि- त्तवृत्तेरागादि वासनया स्तब्धीभावात् अखण्डव स्त्वनवलम्बनं कषायः । अखण्डवस्त्वनवलम्बने- नापि चित्तवृत्तेः सविकल्पानन्दास्वादनं रसास्वा- दः । समाध्यारम्भसमये सविकल्पानन्दास्वाद- नं वा ॥ ९४ ॥ (सं०टी०) उक्तयमाद्यष्टांगसहितनिर्विकल्पकसमाधेर्नि- र्विघ्नानुष्ठानसिद्ध्यर्थं विघ्नज्ञानव्यतिरेकेण तन्निवारणस्य कर्तु- मशक्यत्वादस्य चतुरो विघ्नान् दर्शयति। एवमस्येति। तत्राद्यं विघ्नं लक्षयति । लयस्तावदिति । लयो द्विविधः चिरकालप्रयु- क्ताष्टांगसहितनिर्विकल्पकसमाध्यभ्यासपाटवेनातितप्तलोहतल क्षिप्तजलबिंदुवत्तैलरहितदीपकलिकावच्च प्रत्यगभिन्नेपरमानंद चित्तवृत्तेर्लयः प्रथमः । द्वितीयस्तु मूर्छावस्थावत् आलस्येन चित्तवृत्तेर्बाह्यशब्दादिविषयग्रहाणानादरे सति प्रत्यगात्मस्वरू- पानवभासनाद्वृत्तेःस्तब्धीभावलक्षणनिद्रारूपः।तत्राद्यमंगीकृत्य द्वितीयस्य विघ्नत्वेन तत्त्यागाय तत्स्वरूपमाह । लयस्ताव- दिति । द्वितीयं विघ्नमाह । अखंडेति । अखंडवस्तुग्रहणायां- तर्मुखतया प्रवृत्तायाः चित्तवृत्तेः चिदनवलंबनेन त्रस्तपक्षिवत्पु- नर्बाह्यविषयग्रहणाय प्रवृत्तिर्विक्षेप इत्यर्थः । तृतीयं विघ्नमाह । लयेति । रागादयः त्रिविधाः । बाह्या आभ्यंतरा वासनामा- त्ररूपाश्चेति । बाह्याः पुत्रादिविषयाः । आभ्यंतरा मनोराज्या-