वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 119, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( ११९ ) दयः । संस्काररूपा वासनामयाः । तत्रानेकजन्माभ्यस्तबाह्या- भ्यंतररागाद्यनुभवजनितसंस्कारैः कलुषीकृतं चित्तं कथंचिच्छ्र- वणादिसाधनेनांतर्मुखमपि चैतन्यग्रहणसामर्थ्याभावान्मध्येएव स्तब्धीभवति यथा राजदर्शनाय स्वगृहान्निर्गत्य राजमन्दिर- प्रविष्टस्य कस्यचित्पुरुषस्य द्वारपालनिरोधेन स्तब्धीभावः तथा परित्यक्तबाह्यविषयस्याखंडवस्तुग्रहणाय प्रवृत्तस्य चित्तस्यो- द्बुद्धरागादिसंस्कारैः स्तब्धीभावादखंडवस्त्वग्रहणं कषाय इत्य- र्थः । चतुर्थविघ्नमाह। अखंडेति। उक्तसविकल्पकसमाध्योर्मध्ये द्वितीयः शब्दानुविद्धः त्रिपुटीविशिष्टः तस्मिन्नानंदो बाह्यश- ब्दादिविषयप्रपंचभारत्यागप्रयुक्तो न तु चैतन्यप्रयुक्तः यथा निधिग्रहणाय प्रवृत्तस्य निधिपरिपालकभूतप्रेताद्यावृतस्य नि- धिप्राप्त्यभावेपि भूताद्यनिष्टनिवृत्तिमात्रेण कोपि महानानं- दो भवति तथा सविकल्पकसमाधावखंडवस्त्वनवलंबननि- त्यानंदरसास्वादनाभावेपि अनिष्टबाह्यप्रपंचनिवृत्तिजन्यानंदं सविकल्परूपं ब्रह्मानंदभ्रमेणास्वादयतीति तत् रसास्वादनमि- त्यर्थः । लक्षणांतरमाह । समाधीति । निर्विकल्पकसमाध्यारं- भकालेऽनुभूयमानसविकल्पकानंदत्यागासहिष्णुतया पुनः त- स्यैवास्वादनं रसास्वाद इत्यर्थः ॥ ९४ ॥ (भा०टी०) पूर्वोक्त यमादि अङ्गयुक्तनिर्विकल्पक समा- धिके चार विघ्न होते हैं। जैसे लय, विक्षेप, कषाय, और रसास्वा- दन। अखण्ड ब्रह्मवस्तुके अवलम्बनकरनेमें असमर्थ चित्तवृत्ति- की जो निद्रा है उसका नाम लयहै। अखण्ड ब्रह्मवस्तुके अवल