भारतकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 121, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 121

बहिर्मुखतां परित्यज्यांतर्मुखं कुर्यात् उक्तरागादिकषाय सहितं चित्तं यदा भवेत्तदा विजानीयादियं रागादिवासनाबा- ह्यविषयप्रापिका नत्वखंडवस्तुप्रापिका अतो नेयं समीचीनेति विविच्य प्रत्यक्श्रवणवासनायाः सकाशादियं निकृष्टाऽतस्त्या ज्येयमिति जानीयादित्यर्थः। यद्वा सम्यग्वस्तुन्यप्राप्तं चित्तं यदा भवति तदा तच्चित्तं कषायसहितंजानीयात्तच्चचित्तं यावताकाले न रागादिवासनाक्षयसहितं भवति तावत्कालंतच्चित्तंस्वस्थानान्न चालयेद्वासनाक्षयानंतरं चित्तं स्वत एव प्रत्यक्प्रवणं भवतीत्य र्थः। नास्वादयेदिति। पूर्वोक्तसविकल्पकरसं विषयप्रपंचभारत्या गजन्यं नास्वादयेन्नानुभवेत् । तत्र युक्तिमाह । निःसंग इति । यतो निःसंगो वैषयिकसुखदुःखादिसंगरहितः अतः प्रज्ञया युक्तो भवेत् स्थिरप्रज्ञो भवेदित्यर्थः । तदुक्तं भगवता “प्रज- हाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तु- ष्टः स्थितप्रज्ञस्तदोच्यते” इति । तस्माल्लयदिविघ्नाभावविशि- ष्टचित्तस्य चिन्मात्रतयावस्थानं निर्विकल्पकसमाधिरित्यर्थः। तत्र भगवानाह । यथेति । अथ निर्विकल्पकसमाधौ स्व- गुरूपदिष्टमार्गेण यथामति किंचिद्विचार्यते । पंचभूमिकोपेतस्य चित्तस्य भूमिकात्रयपरित्यागेनावशिष्टं भूमिकाद्वयं समाधिरि त्युच्यते। कास्ताः पंचभूमिकाः। क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरु- द्धं चेति पंच चित्तभूमिकाः । तत्र सुरसंपल्लोकशास्त्रदेहवासना- सु वर्त्तमानं क्षिप्तमित्युच्यते, निद्रातंद्रादिग्रस्तं चित्तं मूढमित्यु- च्यते, कदाचित्कृतध्यानयुक्तमपि बहिर्गमनशीलं उक्तविक्षिप्ता- ६