वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 122, कुल 145 में से
संदर्भ में पढ़ें( १२२ ) वेदान्तसार । द्विशिष्टतया विक्षिप्तं चित्तमित्युच्यते, तत्र क्षिप्तमूढयोः समा- धित्वशंकैव नास्ति विक्षिप्ते तु चेतसि विक्षेपांतर्गततया दह- नांतर्गतबीजवच्चित्तस्य सद्यएव विनाशात्तदापि न समाधिः। ए- काग्यतां पतञ्जलिः सूत्रयति “शांतोदितौ तुल्यप्रत्ययौ चित्तस्यै- काग्यता परिणामः”इति। अस्यार्थः।शांतोऽतीतःउदितोवर्तमानः चित्तवृत्तिरतीतवर्त्तमानप्रत्ययौ भवतः। अतीतप्रत्ययो यं पदार्थं गृह्णाति उदितोपि तमेव चेत् गृह्णीयात् तदा तावुभौ तुल्यौ भ- वतः। तादृशएव चित्तस्य परिणाम एकाग्रतेत्युच्यते,एकाग्रता- भिवृद्धिलक्षणं समाधिं सूत्रयति । सर्वार्थैकाग्रतयोः क्षयोदयौ चित्तस्य परिणामः समाधिरिति रजोगुणेन चाल्यमानं चित्तं क्रमेण सर्वानर्थान्पदार्थान्परिगृह्णाति तस्य रजोगुणस्य निरो- धाय क्रियमाणेन प्रयत्नविशेषेण दिने दिने योगिनः सर्वार्थता क्षीयते एकाग्रता चोदेति तादृशः चित्तस्य परिणामः समाधि- रित्यर्थः। अस्य समाधेरष्टांगेषु यमनियमासनप्राणायामप्रत्याहा राः पंच बहिरंगानि। हिंसादिभ्यो निषिद्धेभ्यो योगिनः कर्म्मभ्यो यमयन्ति निवर्त्तयंतीत्यहिंसादयो यमाः। जन्महेतोः काम्यधर्मा- न्निवर्त्य मोक्षे हेतौ निष्कामधर्मे नियमयंति प्रेरयंतीति शौचा- दयो नियमाः। यमनियमयोरनुष्ठानवैलक्षण्यं स्मर्यते “यमान्से- वेत सततं न नित्यं नियमान्बुधः । यमान्पतत्यकुर्वाणोनियमां- न्केवलान् भजन्” इति बुद्धया यमनियमौ समीक्ष्य यमबहु- लेषु प्रयत्नेषु बुद्धिमनुसंदधीत । आसनप्राणायामप्रत्याहारा व्याख्याताः ॥ ९५ ॥