वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 124, कुल 145 में से
संदर्भ में पढ़ें( १२४ ) वेदान्तसार । प्रथमं लब्धे सति बहिरंगलाभाय नातिप्रयासः कर्तव्यः । यद्य- पि पतंजलिना भौतिकभूततन्मात्रेन्द्रियाहंकारविषयाः संप्र- ज्ञातसमाधयो बहुधा प्रपंचिताः तथापि तेषामंतर्धानाकाश- गमनादिसिद्धिहेतुतया मुक्तिहेतुसमाधिविरोधित्वान्नास्माभिः तत्रादरः क्रियते । तथा चोक्तं वासिष्ठे । "श्रीराम उवाच । जीवन्मुक्तशरीराणां कथमात्मविदांवर । शक्तयो नेह दृश्यंते आ- काशगमनादिकाः॥ श्रीवसिष्ठउवाच। अनात्मविदमुक्तो पि सि- द्धिजालानि वांछति । द्रव्यमंत्रक्रियाकालयुक्त्याप्नोत्येव राघव ॥ नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्मनात्मदृक् । आत्मना- त्मनि संतुष्टो नाविद्यामनुधावति । ये केचन जगद्भावा- स्तानविद्यामयान्विदुः । कथं तेषु किलात्मज्ञस्त्यक्त्वा वि- द्यां निमज्जति । द्रव्यमंत्रक्रियाकालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वंति कांचन ॥" इति। आत्मविषयस्तु सं प्रज्ञातसमाधिर्वासनाक्षयस्य निरोधसमाधेश्च हेतुः तस्मा- त्तत्रादरः कृतः । अथ पंचमभूमिकारूढचित्तस्य निरोध- लक्षणः समाधिर्निरूप्यते । तं च समाधिं सूत्रयति “व्युत्था- ननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरोधः परिणामः” इति । व्युत्थानसंस्काराः समाधिविरोधिनः ते च निरोधहेतुना योगिप्रयत्नेन प्रतिदिनं प्रतिक्षणं वाऽभिभू- यंते तद्विरोधिनश्च निरोधसंस्काराः प्रादुर्भवंति तथा सति नि- रोध एवैकस्मिन् क्षणे चित्तमनुगच्छति सोऽयमीदृशः चित्तस्य परिणामो भवति यदा तदाऽसंप्रज्ञातसमाधिरुच्यत इत्यर्थः। ए-