वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 14, कुल 145 में से
संदर्भ में पढ़ें( १४ ) वेदान्तसार । इन्द्रियोंका दमन करना अथवा विधिवाक्योंसे विहित कर्मों का विधिपूर्वक परित्याग उपरति कहाता है ॥ १४ ॥ तितिक्षा शीतोष्णादिसहिष्णुता ॥ १५ ॥ ( सं०टी० ) तितिक्षाया लक्षणमाह।तितिक्षेति । शरी- रधर्म्मस्य शीतोष्णादेः तज्जन्यसुखदुःखादेश्च शरीरस्य त्यक्तुम- शक्यत्वात् स्वप्रकाशचिद्रूपे स्वात्मनि च शीतोष्णादेरत्यं- ताभावादिति विवेकदीपेन मिथ्याभानस्य शीतोष्णादेर्द्वंद्वस्य यत्सहनं सा तितिक्षेत्यर्थः ॥ १५ ॥ ( भा०टी० ) शीत, उष्णता, सुख, दुःख इत्यादिके सह- लेनेको तितिक्षा कहतेहैं ॥ १५ ॥ निगृहीतस्य मनसः श्रवणादौ तदनुगुण- विषये च समाधिः समाधानम् ॥ १६ ॥ ( सं०टी० ) इदानीं समाधानलक्षणमाह । निगृहीतस्य मनस इति। शब्दादिविषयेभ्यो निगृहीतस्यान्तःकरणस्य श्रव- णादौ तदनुगुणेषु तदुपकारकेषु अमानित्वादिसाधनविषयेषु समाधिर्नैरंतर्येण तच्चिंतनं समाधानमित्यर्थः ॥ १६ ॥ ( भा०टी० ) ईश्वरविषयक श्रवणादि अथवा तत्सदृश और विषयोंद्वारा निगृहीत मनकी एकाग्रता अवस्था का नाम समाधान है ॥ १६ ॥ गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा ॥ १७ ॥ ( सं०टी० ) श्रद्धायः स्पष्टार्थाः ॥ १७ ॥ ( भा०टी० ) गुरुदेवके वचनों में तथा उपनिषदादि वे-