वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 13, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( १३ ) से भिन्न जो अन्य विषयोंसे अन्तरिन्द्रिय ( मन ) का हटा- लेना वह शम कहाता है ॥ १२ ॥ दमः बाह्येन्द्रियाणां तद्व्यतिरिक्त- विषयेभ्यो निवर्त्तनम् ॥ १३ ॥ (सं०टी०) इदानींदमस्यलक्षणमाह॥ दम इति। ज्ञानसाध नश्रवणादिसाधनेभ्यो विलक्षणेषु शब्दादिविषयेषु प्रवर्तमानानि श्रोत्रादीनि बाह्येन्द्रियाणि येन वृत्तिविशेषेण निवर्त्तंते स दम इत्यर्थः ॥ १३ ॥ ( भा०टी० ) श्रोत्राआदि बाह्येन्द्रियोंका ईश्वरविषयक श्रवणादिसे भिन्न विषयोंसे हटा लेना दम कहाता है ॥ १३ ॥ निवर्त्तितानामेतेषां तद्व्यतिरिक्तविषये- भ्य उपरमणमुपरतिः । अथवा विहिता- नां कर्म्मणां विधिना परित्यागः ॥ १४ ॥ (सं०टी०) इदानीमुपरतेर्लक्षणमाह। निवर्त्तितानामि- ति । निगृहीतानामेव तेषां बाह्येन्द्रियाणां श्रवणादिसाध नव्यतिरिक्तेषु यथा तानीन्द्रियाणि सर्वथा नागच्छंति तथा ते- ष block षां निग्रहो येन वृत्तिविशेषेण क्रियते सोपरतिरित्यर्थः । उ- परतेर्लक्षणान्तरमाह । अथवेति । विहितानां नित्यादिकर्म्मणां विधिना चतुर्थाश्रमस्वीकारणकर्मणां परित्यागः नाहं कर्तेत्य- वस्थानमुपरतिरित्यर्थः ॥ १४ ॥ ( भा० टी० ) तद्व्यतिरिक्त विषयोंसे हटाईहुई बाह्य