भारतकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 20, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 20

( २० ) वेदान्तसार। त्रिगुक्तात्मकं ज्ञानविरोधिभावरूपं यत्किञ्चिदिति वदंति । अहमज्ञ इत्याद्यनुभवात् । "देवा- त्मशक्तिं स्वगुणैर्निगूढाम्" इत्यादिश्रुतेश्च॥ २६ ॥ ( सं०टी० ) अस्मिन्नर्थे लौकिकदृष्टांतमाह। असर्पभू- तइति । व्यावहारिकवस्तुत्वेनाभिमतायां रज्जाववस्तुभूतस- र्पारोपोनाम रज्ज्ववच्छिन्नचैतन्यविवर्तो रज्ज्ववच्छिन्नचैत- न्यनिष्ठाविद्योपादानत्वेन नायं सर्पः किंतु रज्जुरिति विशेष- दर्शनोत्तरकालीनाधिष्ठानरज्जुसाक्षात्कारेण रज्जुज्ञाननिवृत्तौ सर्पभ्रांतिर्निवर्तत इत्यर्थः । उक्तमर्थं दार्ष्टांतिके योजयति । व- स्त्विति । कालत्रयानपायि आत्मैव वस्तुशब्दार्थः सा विद्या स- र्पज्ञानाभासाकारेण परिणममाना सर्पाकारेण विवर्तते । अत्रा- वस्तुरूपमाह । अज्ञानादीति । अज्ञानतज्जन्यव्योमादेर्मिथ्या- त्वाद्दृश्यत्वात्सावयवत्वादिकारित्वात्सापेक्षसिद्धिकत्वादित्या- दिहेतुभिरवस्तुरित्यर्थः । एतदेव विस्तरेण प्रतिपादयितुमज्ञा- नस्वरूपं तावदाह । अज्ञानं त्विति । किमिदमज्ञानं सद्द्रूपमसद्रू- पं वा। नाद्यः। तस्य शशविषाणतुल्यत्वेन तुच्छत्वात्। नापि द्वितीयः। असतःकारणत्वानुपपत्तेः । इत्यादिहेतुभिः सत्त्वेनास- त्त्वेन वा निरूपयितुं न शक्यत इत्याह।अनिर्वचनीयमिति। न- न्वज्ञानस्यानिर्वचनीयत्वे सर्वथा ज्ञातुमशक्यत्वात्तदभावप्रसंग- माशंक्याह । त्रिगुणात्मकमिति। "अजामेकाम्" इत्यादिश्रुति- भिः सत्वरजस्तमोगुणात्मकप्रतिपादनादित्यर्थः । नन्वेवमज- स्याज्ञानस्य श्रुतिप्रसिद्धस्य व्योमादिरूपेण विततस्य सत्यवद्भा-