वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 37, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( ३७ ) निमित्तं स्वोपाधिप्रधानतया उपादानञ्च भवति यथा लूता तन्तुकार्य्यम्प्रति स्वप्रधानतया निमि- त्तं स्वशरीरप्रधानतयोपादानं च भवति ॥ ३८ ॥ ( सं०टी० ) उपादानत्वेन च कार्यकारणयोरभेदेन प्रपंच- स्यापि चैतन्यरूपत्वप्रसंगादनित्यत्वं न स्यादित्याशंक्य जड- प्रपंचं प्रत्यात्मनः चैतन्यप्राधान्येन निमित्तत्वं स्वाज्ञानप्राधा- न्येनोपादानत्वं च संभवतीत्याह । शक्तिद्वयवदिति । यथा- यस्कांतसन्निधाने जडमयं लोहं चेष्टते तथा चैतन्यसन्निधाने जडमज्ञानं चेष्टते इत्यज्ञानविकारं प्रति चैतन्यस्य निमित्तत्वं जडाकाशादिकार्यं प्रति मायायाः साक्षादुपादानत्वेन माया- विन ईश्वरस्यापि परंपरयोपचारादुपादानत्वं न विरुध्यत इत्य- र्थः। तदुक्तं चैतन्यस्य निमित्तकारणत्वे कार्यानुप्रवेशो न स्यादि- ति। तन्न । कारणस्य कार्यानुप्रवेशनियमस्योपादानकारणविष- यत्वेननिमित्तकारणविषयत्वाभावात् ‘तत्सृष्ट्वा’ इत्यादिश्रुतेरप्यु पादानकारणपरत्वात्।यदप्युक्तं आत्मन उपादानकारणत्वे प्रपं चस्यानित्यत्वं न स्यादिति तदपि न । तस्य परिणामविषयत्वेन विवर्त्तविषयत्वाभावात्प्रपंचस्य ब्रह्मविवर्तत्वाद्विवर्तत्वं च स्व- स्वरूपापरित्यागेन स्वरूपांतरप्रदर्शकत्वं। यथा रज्ज्ववच्छिन्नचै तन्यनिष्ठाज्ञानस्यरज्जुस्वरूपापरित्यागेन सर्पादिस্বরূপांतरप्रद- र्शकत्वं तथेश्वरचैतन्यनिष्ठाज्ञानशक्तेरपि चैतन्यस्वस्वरूपापरि त्यागेन आकाशादिस्वरूपांतराकारेण प्रदर्शकत्वं। एतावताका- शादिप्रपंचस्य नित्यत्वं न संभवति।अज्ञानस्यमिथ्यारूपत्वेन त-