भारतकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 4, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 4

( ४ ) वेदान्तसार । न मूलाज्ञाननिवृत्तिपरमानंदावाप्तिसिद्धये प्रकरणमारभमाणःत- त्समाप्तिप्रचयगमनादिफलकस्य शिष्टाचारपरिप्राप्तेष्टदेवतानम- स्कारलक्षणमंगलाचरणस्यावश्यकर्तव्यतांप्रदर्शयँल्लक्षणयानुबं- धचतुष्टयं निरूपयन्परमात्मानंनमस्करुतेऽखंडमित्यादिना ॥ अ खंडमिति ॥ अभीष्टस्य निःश्रेयसःसिद्धये प्राप्यर्थमात्माश्रये ए- कत्वेन प्रतिपद्य इत्यर्थः। नन्वविषयस्यात्मनः कथं प्रतिपत्तिरि- त्याशंक्याह । अखिलाधारमिति । अखिलस्य चराचरात्मक- प्रपंचस्य विवर्ताधिष्ठानत्वेन कारणत्वाक्रांतं ब्रह्मैव प्रतिपद्ये- त न तु शुद्धमित्यर्थः । नन्वेवं च सति प्रतिपत्तिविषयत्वेन दृ- श्यत्वापत्तिरित्याशंक्याह । अवाङ्मनसगोचरमिति। “यतोवा- चो निवर्तंते” इत्यादिश्रुतिभिरविषयत्वप्रतिपादनात्प्रतिपत्तिवि- षयत्वं कारणत्वोपलक्षितं ब्रह्मविषयत्वेनौपचारिकमिति भा- वः । ननु एवमपि ब्रह्मणः कारणत्वे मृत्पिंडवदनित्यत्वाशंका- मपहरन्नाह । सदिति। नाशाभावोपलक्षितस्वरूपम् “सदेव सौम्ये- दमग्र आसीत्” इत्यादिश्रुतेः । ननु तथापि जडत्वापत्तिमाशं- क्याह । चिदिति । स्वप्रकाशचैतन्यस्वरूपमिति यावत् । ननु तथाप्यपुरुषार्थत्वात्किमित्याश्रयणीयमित्यत आह । आ- नंदमिति । परमानंदरूपमित्यर्थः । ननु 'भक्षितेऽपि लशुने न शांतो व्याधिः'इति न्यायेन प्रपंचस्याधिष्ठानव्यतिरिक्ततया प्रतीयमानत्वात्कथमद्वैतसिद्धिरित्याशंकां तृणीकुर्वन्नाह । अखंडमिति । सजातीयविजातीयस्वगतभेदशून्यमित्यर्थः । अत्र सच्चिदानंदमिति प्रयोजनम् । अखंडमिति विषयः ।