वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 5, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । (५) शास्त्रविषययोः प्रतिपाद्यप्रतिपादकभावः संबंधः । तत्कामोऽ- धिकारीत्यनुबंधचतुष्टयमर्थादुक्तं भवति ॥ १ ॥ ( भा०टी० ) जो वाणी और मनसे पर और संसारका आधारस्वरूप पूर्णब्रह्म सच्चिदानन्द है उसको अपने इच्छित कार्यकी सिद्धिके अर्थ आश्रय करताहूँ ॥ १ ॥ अर्थतोऽप्यद्वयानन्दमतीतद्वैतभानतः ॥ गुरून्नाराध्य वेदान्तसारं वक्ष्ये यथामति ॥२॥ ( सं०टी० ) किंच “यस्य देवे परा भक्तिर्यथा देवे तथा गु- रौ। तस्यैते कथिता ह्यर्थाः प्रकाशंते महात्मनः॥” इत्यादिश्रुत्या गुरुनमस्कारस्यापि शास्त्रांगत्वप्रतिपादनात्तन्नमस्कारोपि अ- वश्यं पृथक्त्वेन कार्य इति तन्नतिपूर्वकमभिधेयग्रन्थं प्रतिजा- नीते । अर्थतोपीति । अपिशब्देन न केवलं शब्दतः डि- त्थकपित्थादिवत्संज्ञामात्रं व्यवस्थितमपि तु अर्थतः शब्द- तश्चेति अद्वयानंदान् गुरून्नाराध्य वेदांतसारं यथामति वक्ष्य इत्यन्वयः। अद्वयश्चासावानंदश्चाद्वयानंदस्तांनद्वयानंदान् । अत्र हेतुमाह । अतीतद्वैतभानत इति । अतीतं गतं द्वैतभानं यतः त- स्मादतीतद्वैतभानतः निरस्तसमस्तभेदज्ञानत्वादित्यर्थः । ता- न्गुरून्नाराध्य कायवाङ्मनोभिर्नमस्कारगोचरीकृत्य वेदांतसारं वेदांतानामुपनिषद्वाक्यजातानां मध्ये यत्सारं सिद्धांत रहस्यं यस्मिन् ज्ञाते पुनर्ज्ञातव्यं नावशिष्यते तं वेदान्तसारं यथामति १ आदरार्थे बहुवचनमिति शिष्टोपदेशाद्गुरावादरात्तानिति बहुवच- ननिर्देशोऽवावगन्तव्यः ।