भारतकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 64, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 64

( ६४ ) वेदान्तसार । श्रुतेः इन्द्रियाणामभावे शरीरचलनाभावात्काणो- हं बधिरोहं इत्याद्यनुभवाच्च इन्द्रियाण्यात्मेति वदति ॥ ६३ ॥ ( सं०टी० ) अध्यारोपप्रकरणमुपसंहरति । एवमिति । ईश्वरचैतन्ये सामान्यतो महाप्रपंचाध्यारोपप्रकारं सप्रपंच- मभिधायेदानीं प्रत्यगात्मनि विशेषाध्यारोपप्रकारं दर्शयितुमु- पक्रमते । इदानीमित्यादिना । अध्यारोपमेवाह । इदमिदमि- ति । प्रत्यक्षादिसंनिहितस्यापत्यादिधर्मिण इदमिदं विनिर्देशः क्रियते । इदमिदमित्यादेर्वीप्सा । तथा चातिस्थूलबुद्धिस्तु इद- मपत्यादिकमेवाहम् । अयं पुत्र एवाहमित्यत्यंतबाह्यधर्मवि- शेषेणात्मन्यध्यारोपयतीत्यर्थः । अत्र श्रुतिमाह । आत्मा वा इति । तत्र युक्तिमाह । स्वस्मिन्निति । यथा स्वशरीरे प्रेमदर्शनादात्मत्वभ्रमः एवं स्वपुत्रादिशरीरेपि प्रेमदर्शनादात्म- त्वभ्रम इत्यर्थः । अत्रानुरूपमनुभवमाचष्टे । पुत्र इति। एतदपेक्ष- या विशिष्टबुद्धिरन्यः कश्चिदधिकारी स्वदेहमेवात्मानं मन्य- त इत्याह । चार्वाकस्त्विति। अत्रापि श्रुतिमाहास वा इति। पु- त्रादिशरीरस्यात्मत्वाभावे युक्तिं दर्शयन् पूर्वोक्ताधिकारिणः सकाशात्स्वस्य वैलक्षण्यं दर्शयति । प्रदीप्तगृहादिति । देह- स्यात्मत्वेऽनुभवं च प्रमाणयति । स्थूलोहमिति । ततोप्युत्कृ- ष्टः कोप्यधिकारी श्रुतियुक्त्यनुवेधैः इंद्रियाण्यात्मेति व- दति इत्याह । अपर इति ॥ ६३ ॥ ( भा०टी० ) इसप्रकार संक्षेपसे वस्तुरूप ब्रह्मचैतन्यमें